________________
सप्तमं व्याख्यानम् ।
(१६६) ततः कृष्णस्य चाणूरेण रामस्य मुष्टिकेन सह मल्लयुद्धं प्रावर्तिष्ट । चिरं युद्धलीला दर्शयन्तौ रामकृष्णौ परैरजय्यौ महामन्लौ कृतान्तातिथी चक्राते । 'सुभटाः ! यूयमेतौ निगृह्य सदसि तिलवद्यन्त्रे निपीलयत' इत्थमादिशन्तं कंसं भूमौ निपात्य कचग्राह शिरश्चिच्छेद कृष्णः। मृत्वा च कंसो नरकमगमत् । ततः सर्वे यादवा मिलित्वा तमु. असेनं पिञ्जराबहिनिष्काश्य राजसिंहासने प्रागिव समतिष्ठिपन् । विविदुश्च सर्वे सभ्या रामकृष्णौ वसुदेवपुत्रौ । तदनूग्रसेनो राजा षोडशवर्षीयसा कृष्णेन त्रिशतवर्षीयसी स्वपुत्री सत्यभामां पर्यणीनयत ।
अथ जरासन्धाबेभीयमाना यादवा जीवयशां कंसभार्यामपृच्छन्-कंसस्याऽग्निसंस्कारः कर्त्तव्योऽस्माभिर्न वा ?, तयोक्तम्-न हि रामकृष्णप्रमुखयादवैः सह धवस्यदाहं चिकीर्षामि । तदोवाच कृष्ण:-रण्डे ! याहि यत्करणीयं तक्रियतां त्वया किं स्यात् ?। सा कुपिता पित्रन्तिकमागत्य रोरुद्यमानैवमुवाद-त्वयि जीवत्येव समुद्धता यादवास्ते जामातरं निहत्य मामीदृशी दुर्दशां निन्युः । पितोवाच-'वत्से ! धीरा भव, तावुभावपि रामकृष्णौ मे महापराधिनौ वर्तते । यद्येतौ स्वयमत्राऽऽनयिष्यन्ति ताभ्यामुचितं दण्डं दास्यामि तवेव यादवास्तत्र सुखेन निवत्स्यन्ति, नो चेन्मरिष्यन्त्येव सकलाः।' इत्थं तामाश्वास्य जरासन्धो राजा सोमसामन्तं यादवाऽन्तिके प्रेषीत् । स हि तत्र गत्वा समुद्रविजयादीन् कथयितुमारेमे-'भो यादवाः । शृणुत यदासीद्भाव्यं तदभूदेव, तत्तु मा शोचिष्ट । केवलं रामकृष्णौ मया सह तदन्तिके प्रेषयत, सर्वे यादवाः प्राग्वदिहैव सुखमनुभवत, चेदेतौ न प्रेषयिष्यथ तर्हि केऽपि भवन्तो नैव जीविष्यन्तीति सत्यं जानीत । दासयोस्तयोः कृते कुलक्षयं मा कुरुत । ' सोमोदितं श्रुत्वा समुद्रविजयोऽवदत्'सोम ! त्वमज्ञ इव किमेवं भाषसे ?, किमेतौ परैरजय्यौ हननाय ते दद्याम् ।' प्रा. ख्यद्रामः-- रे ! पितरं याचमानः पुत्रं कथं न दृणीयसे । साम्प्रतन्तु दुधियं कंसं हत्वा किलैकस्यैव बन्धुवधस्य वैरमशोधयम् , पश्चानां वैरशोधनं तु शिष्यत एव । अतस्त्वं जिजीविषसि चेत्तूर्णमितोऽपसर, नोचेदधुनैव त्वामपि तत्फलं दर्शयिष्यामि । इमां गिरमाकण्ये तात्रस्यमाणः सोमस्ततो निर्गत्य जरासन्धसमीपमागत्य सर्वेमभ्यधात्तम् ।
अथ भीता यादवाः कोष्टिकनैमित्तिकमपृच्छत्-कस्यां दिशायां कस्सिश्च स्थाने नो भविता विजयः, निरुपद्रवा च वसतिः १, सोऽवदत्-तव कुले रामकृष्णावम् महापुरुषो स्तः । नेमिनाथो भगवाँस्तीर्थकर्ताऽवतीर्णोऽस्ति, अतः सदैव सर्वत्र कः समृद्धिः सुखं विजयश्च जनिष्यत एवेति सत्यं जानीहि । परमधुनाव किश्चिद्भयं वर्तते । अत इमां नगरी त्यक्वा कृष्णं राजानं कृत्वा पश्चिमदिशायां सर्वे यात, मार्गे च यत्र सत्यभामेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org