________________
(१९८)
श्रीकल्पसूत्रार्थप्रबोधिनी. तदुपहासमसहमानः कृष्णस्तदैव तचापमुत्थाप्य कर्णान्तमानम्य शरमायोजयत् । ततः पार्श्वस्था सत्यभामा कृष्णं वरमालापरिधापनेन वने । तदा कुपित्वाऽनाधृष्टिमवादीद्वसुदेव:- एनमत्र कथमनैषीः ?, याहि यथाऽऽनेष्ठास्तथैवं सदनं प्रापय ।' ततोऽनाधृष्टि छमतया कृष्णं गोकुलमानयत् ।
एतावन्ति दिवसानि कृष्णो बलभद्रं भ्रातास्तीति नो विवेद । इत्थं षोडशवर्षीयानभवत्कृष्णः । ततः कंसः कौशिकमश्वं खरं मेषश्चारिष्टवृषभं गोकुले प्रैषीत् । ते तत्रागत्य भृशमुपदुद्रुवुः । एतान् व्यपीपदत्कृष्णः । तान्मृतानवगत्य चिन्ताकुलः कंसो मल्लानां युद्धोत्सवं प्रावर्तयत् । तत्र बहवो मल्ला: संस्कृता अभूवन् । तेषु मुष्टिकचाणूरमलौ महाबलवन्तौ सर्वैरजय्यौ स्तः । कंसः शुशोच-' यः पुरा शाङ्ग चापमाचकर्ष तमहं तदा सम्यङ् नाऽपश्यम् । अस्मिँश्च मल्लयुद्धे चेदागच्छेत्, तर्हि तमिहत्य निश्चिन्तः स्याम्' इति ध्यायकत्र राजाहमश्चके निषसाद । अन्येऽपि भूयांसो राजवर्गाः श्रेष्ठिवर्गाश्च निषेदुः । अथ दिदृचया कृष्णो बलराममभाषत-त्वं मे गुरुरसि, अतोऽद्य मथुरायां जायमानं मल्लयुद्धमवलोकितुं मामनुजानीहि । रामोऽचिन्तयत्-नूनमेष तत्र व्रजिष्यात कदाचित्कंसेन सह युद्धं भवेदतः स्वबन्धुता बोधनीयेति विचार्य सह कृष्णन यशोदामुवाच-अद्यावां मथुरां गमिष्यावो मल्लयुद्धदर्शनार्थमतस्तूर्ण स्नातुमुष्णोदकं देहि । सा श्रुत्वापि कार्यान्तरव्यग्रतया तदुक्तं नाऽकरोत् । तदा कुपितो रामस्तामब्रवीत्-यशोदे ! किं मे भ्रातुः कृष्णस्य पोषणकरणात्स्वामिनी जाता, दास्यत्वं व्यस्माषीः ?, यन्ममादेशममाक्षीरिति जन्पित्वा, बन्धो ! चल, अद्य यमुनायामेव स्नात्वा मथुरां गमिष्याव इति कृष्णमुवाच । तदा मातुरवज्ञया प्रकुप्यमानः कृष्णो बलेन सहाऽचलत् । मार्गे च तत्कोपोपशमनाय बलस्तमेवमारव्यातुमारेभे-बन्धो ! त्वं देवक्या जनितोऽसि यशोदया न, माश्च वैमातृकं वन्धुमवेहि । मन्माता रोहिणी तव देवकी पितात्वेक एवास्ति । तवाग्रजान् षड् भ्रातृञ्छिलोपरि निपातं निपातमहिनत् । अतएव जातमात्रं त्वां कंसभीत्या यशोदान्तिके पिताऽमुञ्चत् । तदाकर्ण्य क्रुद्धः कृष्णः प्रतिज्ञामकरोत्-यदचैव निजभ्रातृनिहन्तारमेनं कसं हन्यां तर्येव कृष्णेतिनाम लोके विभृयाम् । ततो यमुनायां स्नातुम्प्राविशत् , तदैव कालियनामा महाकायो भोगीशो दृष्टः । कृष्ण एनं गृहीत्वा नासिकां विद्धबा तदुपरि चटित्वा तुरङ्गमिव धावयन् व्यसुमकार्षीत् । तदाऽऽलोकमाना विस्मयाविष्टचेतसो लोका नगरे जजन्पु:-यदद्य नन्दकिशोरः कालियनागमवधीत् । परम्परया कंसोऽप्येनां वाचामभृणोत् । तदनु स्नातानुलिप्तौ रामकृष्णौ पुरद्वारि समायातौ । तत्र चम्पोत्तरपद्मोत्तरनामानौ गजौ रुन्धानौ विलोक्य तौ ताभ्यां सह युद्धवा दन्तौ समुत्पाव्य मारितवन्तौ । ततो मनयुद्धस्थाने समागत्येक राजानं मञ्चकादधो निपात्य तत्र कृष्णः समासीनोऽभवत् । तत्रैव बलदेव आत्मकुटुम्ब कंसमप्यलचयन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org