________________
सप्तमं व्याख्यानम् ।
( १६७ )
1
नयताश्चानय ' इति कुलदेव्या निगदितो वसुदेवो नवनीरदच्छवित्वान्मात्रा कृष्णेति घृतनामानं शिशुं नीत्वा देवमायया प्रसुप्तेष्वारच केष्वभीः पुरद्वारमुद्घाट्य चलन्नुग्रसेनेन काष्ठपिञ्जरस्थेन पृष्टः कोऽस्तीति । तमाख्यत् - पिञ्जरं भङ्क्त्वा यस्त्वां दुःखादस्मादुद्धरिष्यति स एव याति, इति निगद्य पुरश्वलित्वा यमुनामुत्तीर्य गोकुले यशोदायै कृष्णं दत्वा तस्या दारिकां च लात्वा देवक्यै ददौ । ततो जातकरोदनादिना जागरिता राजभटाः पप्रच्छुः - पुत्रः पुत्री वा १ इति पृष्टे वसुदेवे पुत्री जातेति निगदति सति तां गृहीत्वा कंसाय समार्पयन् । कंसोऽपि तां दारिकां छिन्ननासिकां विधाय पुनदेवक्यै प्रत्यार्पयत् ।
अथ नन्दौकसि यशोदया निजौरस इव पान्यमानः कृष्णः शशधर इव समेध - मानः सुखमनुभवनासीत् । देवकी स्वपुत्रदर्शनसमुत्सुका सती कंसाद्विभ्यती मासान्ते पक्षान्ते वा नवनवपर्वादिव्याजेन तत्र गत्वा कृष्णं पश्यति स्म । अकथयद् यशोदाम्सखि ! तवाऽयं बालो ममप्रेयाँलगति | कृष्णोऽपि शैशवीं लीलां वितन्वन्, मातापितरौ मोदयन्, यशोदाया दधिक्षीरनवनीतादिपात्राणि भूमौ पातयन्, यशोदानन्दयोर्मनांसि समप्रीणात् । अथैकदा वसुदेवो देवकीमुवाच - प्रिये ! भूयो भूयो गोकुलं मागाः, दुर्बी कंसो ज्ञास्यति चेत्, तर्हि कमप्युत्पातं विधास्यति, इति शिक्षयित्वा सप्ताऽष्टवर्षीय कृष्णस्य कलादिशिक्षणार्थं रौहिणेयं (बलभद्रं) तत्र गुप्त्या प्राहिणोत्, सोऽपि तत्र गुझ्या तिष्ठस्तमशिक्षयत् । यदा कृष्णश्चतुर्दशवर्षीयो जातस्तदुभौ बन्धू नीलपीतवसनौ बर्हापीडौं सकलमद्दः कानने गोपैः सह गाश्वारयन्तौ वादयन्तौ च मुरलीं सायं सदनमागच्छताम् । अत्रान्तरे साधोर्वचनमलीकमभून्नवेति शङ्कमानः कंसो नैमित्तिकं पृष्टवान् यदस्ति मे कश्चित्कुत्रापि मारकः पुमान् १, नैमित्तिको जगौ – साधुवाक्यं मृषा नैव भवितुमर्हति । योऽरिष्टनेमिनं दमयिता, कालियनाग - कौशिकतुरग - खर- मेष - चम्पोत्तरपद्मोत्तराख्यगजमुष्टिचाणूरमल्लान् निहत्य ते शार्ङ्गमाक्रक्ष्यति स एव पुमान् ज्ञातव्यस्ते हन्ता । कंसस्ततस्तं विजिज्ञासुः सर्वत्र नगरे पटहवादनेनोद्घोषयामास -- यः कोऽपि पुमान्ाङ्गे चापं नमयिष्यति स मे स्वसारं सत्यभामां परिणेष्यते । इति श्रुत्वा बहवो राजानस्तदन्ये च बलीयांसो जनास्तदाक्रष्टुं तत्राऽऽगताः । तत्र वसुदेवसूनुरनाधृष्टिनामाऽऽगच्छन् सूर्यास्ते जाते रात्रौ तत्रैव गोकुले तस्थौ । तमुपलक्ष्य रामस्तं भृशं सिषेवे । प्रभाते च मथुरामार्ग प्रदर्शयितुं तेन सह कृष्णं प्राहिणोद्बलरामः । कियद्दूरमागत्य तस्य रथोऽधिमार्ग वृक्षयोरन्तराले रुद्धो जातः । प्रयासे कृतेऽपि यदा पुरो रथो नाऽचलत्, तदा कृष्ण एकेनैव पादप्रहारेगा तावुभौ वृक्षौ समुत्पाट्य दूरमक्षिपत् । जाते च मार्गे रथमग्रे चालितवान् । एतदाचर्यजनकं विलोक्य महाबलं विदित्वा रथमुपावेश्य मथुरा मानिनाय । तत्र सदसि गत्वा शाङ्गं धनुराक्रष्टुं स्पृशनेवाऽपप्तत् । तदा सर्वे लोका जहसुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org