________________
(१९६)
श्रीकल्पसूत्रार्यप्रबोधिनी. परिणय ' इत्थमालपन्ती मुनेः कण्ठं नो मुमोच । तदा भीत्युत्पादनाय मुनिर्जगौ-रे दुमतिके ! यां स्कन्धे निधाय नरीनृत्यसे तस्या एव सप्तमो गर्भस्ते प्रियतमं हनिष्यतीति सत्यं जानीहि । वज्रोपमं मुनेर्वाक्यं श्रुत्वाऽतित्रस्ता तमहासीत् । मुनिस्ततोऽन्यत्र निरगात् । जीवयशा मनसि दध्यौ-मुनिना यदुक्तं तदलीकं नैव भवितुमर्हति, सत्यमेव भविष्यतीति निश्चित्य रहसि भर्तारमाख्यत् । कंसोऽपि तच्छ्रुत्वा हृदि चिन्ताकुलोऽभूत् । अथैकदातितोषितो वसुदेवः कंसमाचष्ट-सखे ! अधुना त्वयाऽहं वशम्वदोऽकारि, अतो मां यद्याचिष्यसे तत्ते दातास्मि, इति मत्वा किमपि याचस्व । तनिशम्य कंसोऽवदत्यदि मे दित्सां वहसि तोतुष्यसे च तर्हि देवक्याः सप्तापि गर्मा देया, इतोऽन्यत्किमाप नैवाऽपेक्ष्यते । सरलस्वभावतया वसुदेवोऽपि दास्यामीति वचनं तस्मै ददौ । ततो गृहमागत्य देवक्या अग्रे तदुवाच । तदा देवकी वसुदेवमतिमुक्तकमुन्युक्तं प्राग्वृत्तमाख्यत् । तेन पश्चात्तापे जायमानेऽपि सत्पुरुषोक्तेरपरावृत्तत्वात्तदसहत धीरतयैव वसुदेवः ।
अथ भद्दिलपुरे ' नाग'नामा श्रावको निवसति द्वादशव्रतधारी । तत्पत्नी 'सुलसा' वर्त्तते सा मृतवत्साऽस्ति । मृतानेव पुत्राञ्जनयति । ततः साष्टमतपसा हरि
गमेषिणं देवमाराधयाश्चक्रे । ततस्तृतीय उपवासे प्रत्यक्षीभूय स देवस्तामुवाच-भद्रे ! मामिदानी केन हेतुना स्मृतवत्यसि ? । साऽवक्-मम सुताः सर्वे मृता एव जायन्ते, तानेव जीवयितुं स्मृतोऽसि । देवोऽवदत्-महाभागे ! येन यादृशमार्जितं प्राग्भवे तदिह जन्मनि तेन भोक्तव्यमेव, कस्यापि कर्म दरीकत्तुं नाहं प्रभवामि । तव पुत्रसुखं नैवास्ति सत्यं जानीहि, तथापि तावकी पुत्रयाचा पूरयिष्यामीति कथयित्वाऽदृश्योऽभवत् । तदनु कर्मयोगादेकदैव देवकी सुलसा च गर्भ दध्राते । उभे चैकस्यामेव वेलायां सुषुवाते, देवकी जीवन्तं पुत्रं सुलसा च मृतम् । ततो हरिणगमेषी देवक्याः पुत्रं सुलसा पार्श्वे, सुलसायाश्च मृतं जातं पुत्रं देवकीसमीपे निनाय । ततो रक्षकाः पुरुषास्तं मृतं पुत्रमादाय कंसाय समापर्यन् । तं मृतडिम्भं कंसः शिलोपरि निपात्य जघान । इत्थं देवक्याः षट्पुत्राः सुलसापार्श्वे ववृधिरे, सुलसायाश्च तावतो मृतपुत्रान् देवकीपार्श्वतो गृहीत्वा कंसोऽवधीत् । देवकी प्राग्जन्मनि निजसपत्न्याः सप्तरत्नान्यचूचुरत् , तेन शोशुच्यमाना सारोरुद्यत । ततस्तस्या एक रत्नं दत्तवती, तत् कर्मयोगादत्र जन्मनि देवक्या अपि षट्पुत्रा-अनीकयशा-अनन्तसेन-विजयसेन-निहतारि-देवयशा-शत्रुसेन इति नामानो हरिणैगमेषिणा सुलसा पार्श्वे मुक्ताः। ततो देवक्याः सप्तमे गर्भे सप्तभिर्महास्वप्नैः सूचितः पञ्चमदेवलोकान्च्युतः पुरुषोत्तमः पुत्रोऽजायत । तञ्च जननान्तरमेवाऽऽदातुमारक्षकाः पुरुषा राज्ञा कंसेन स्थापिता आसन् । तथापि वात्सन्याद्देवकी वसुदेवमुवाच-नाथ ! केनाप्युपायेनैष सप्तमो रक्षणीय इति सकरुणं श्रुत्वा तदवनोपायं चिन्तयन् 'गोकुले नन्दगोपपत्नी यशोदाऽधुनैव पुत्रीमसूयत तत्रैनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org