________________
सप्तमं व्याख्यानम् ।
( १६५ )
,
स्वदुहितू रोहिण्याः स्वयम्बर महं प्रारेमे । तत्र च जरासन्धप्रमुखा राजानः समागुः, समुद्रविजयादयो यदुवंशीयाः चितिपा अप्यागुः तदवसरे रोहिणीप्रज्ञप्तिप्रभृतिविद्याधिष्ठायो देव्यः स्वप्ने वसुदेवमुचिरे - ' भोः ! रोहिण्याः स्वयम्वरे याहि । तत्र गत्वा रोहिणीमपि कन्यां परिणय, निद्रां जहाहि, प्रभाते जातेऽवश्यं तत्र कन्यका द्वयं लभस्व इत्थं निगद्य ता देवता रोहिण्या: पार्श्व गत्वा तामूचुः - ' वत्से ! जागृहि त्वया खलु श्वः स्वयम्वरे समस्तराजन्यगणं विहाय कुब्जो मार्दङ्गिको वरणीयः' इति कथयित्वा देव्यस्तिरोदधत । ततः प्रभाते राजकुमारी रोहिणी षोडशशृङ्गारसज्जिता, वयस्याभिः परिवृता, करकमलतले वरमालां दधाना, रतेरपि द्वीपदमादधाना तत्र मण्डपे समायाता । सर्वे सभ्यास्तस्याः कमनीयं रूपं साभिलाषं द्रष्टुं लग्नाः । सतमतल्लिका रोहिणी पुरःसरन्त्या प्रतिहारिण्या संभावितगुणग्रामादीन् नृपालवृन्दानशेषान् समुज्झन्ती कुलदेव्युक्तं मनसा स्मरन्ती कुब्जमार्दङ्गिकरूपेण समायातं मृदङ्गं वादयन्तं वसुदेवं तया वरमालया वत्रे । तेन नरीनृत्यमानः कण्ठाऽवलम्बिवरमालः कुब्जोऽवादीत् - ' एतेभ्यः सकलेभ्यो भाग्यभागस्मि, यदेतान् राजन्यान् वर्जयन्ती यं राजकन्या मामेव वरमाला - मददत |' तन्निशम्य प्रकुपिताः सर्वे परस्परमूचुः -- ' भोः ! इयं कन्यामतिशून्यैवानुमीयते, यतः सर्वानेतान् राजन्याननादृत्य कुब्जमेनं ववार । ' क्रियन्तः समूचिरे - ' - लमिदानीं कन्यानिन्दनादिना, सर्वैरेष एव कुब्जो हन्तव्यः १ ततस्तान् इन्तुकामान् राजन्यशीलयैव कियतां श्मश्रुणी कियतां शिरांसि छिन्दन् कुब्जो जिगाय । तदा जरासन्धेन प्रकुपितेन प्रेरितः समुद्रविजय उत्थाय कोदण्डरवेण लोकान् विभीषयन् योद्धं तत्रागात् । तमवलोक्य ' बन्धुना सह न योद्धव्यम् ' इत्यवधार्य ' वसुदेवस्त्वां प्रणमतीति सूचनार्थ स्वर्णाक्षराङ्कितमिषुं तदधिचरणमस्राचीत् । तद्वाचनेन विस्मयमा - नस्य समुद्रविजयस्य चरणयोस्तूर्णमागत्य निजरूपेण वसुदेवो दण्डवन्न्यपशत् । तमुपलक्ष्य प्रहृष्टमनसां सर्वेषां तेषां कोपः शशाम । ततो महामहेन रोहिणीमुद्रा प्राक् परिगीता द्वासप्ततिसहस्रपत्नीरानीय समुद्रविजयादिना सह विमानारूढो वसुदेवः शौरीपुरमायौ ।
अथ स्नेहातिशयान्महताऽऽग्रहेण वसुदेवं मथुरां नीतवान् कंसराजः । तत्रैकदा वसुदेवेन परिणयार्थ देवकराजपुत्री देवकी समायाता । तया सह रममाणा जीवयशा पैतृकाखर्वगर्वासा सदोन्मत्तप्रायाऽऽसीत् । यदा देवक्या विवाहोत्सवाय मण्डपादिरचना प्रारभ्यत तदा मधुपानेन प्रमत्ता जीवयशा निजस्कन्धे देवकीमारोप्य नरीनृताचक्रे । तदैव कंसस्य कनीयानतिमुक्तकनामा भ्राता गृहीतदीचो गोचर्यै समाययौ । गृहातमेनं मुनिमाश्लिष्य ' देवर ! स्ववसरे समेतोऽसि त्वमपि काश्चिदेकां युवतिं
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org