________________
(१६४)
श्रीकल्पसूत्रार्यप्रबोधिनी. वन्दितुमागात् । तदा तद्राझीमालोक्य परभवे स्यामहं स्त्रीणां प्रेयानिति कृतनिदानो मृत्वा देवलोकं ययौ । ततश्युत्वाऽत्र जन्मनि वसुदेवोऽजायत । पूर्वजन्मनि निदानकरणादिह मारविजित्वरं रूपं लब्ध्वा सर्वासां सीमंतनीनां मनोरमो बभूवान् । यदाऽसौ कुत्रापि व्रजति तस्यां वेलायां शौरीपुरे समस्ताः कामिन्यः सर्वाणि गेहकार्याणि विसृज्य मदनोपममेनं वसुदेवमुदीक्षन्ते । निजपतीन् स्तनन्धयानप्यगणयन्त्यस्तमेव कामयमाना अनुगच्छन्ति । कियतीनाञ्च सदनेषु द्वारोद्घाटनाचौरा भागत्य धनानि चोरयितुं लग्नाः। ततः सर्वे पौरा ऐकमत्यं कृत्वा राजानं समुद्रविजयं व्यजिज्ञपन्-राजन् ! यदाऽसौ वसुदेवकुमारो नगरे प्रयाति तदा तद्पविमोहिता ना स्त्रियः सदनद्वारमुद्घाय्य बलाचमेवाऽनुगच्छन्ति, तेन स्तेनाः प्रविश्य लुण्टन्ति, एनमुपद्रवं सत्वरं निवारय ! नोचेनगरान्तरं गन्तुमादिश । तनिशम्य राजा जगाद-यूयं यात, यथा वोऽयमुपद्रवः शाम्येत् , तथाऽहं विधास्यामि । ततो लोकाः स्वसदनमागुस्तदनु वसुदेवोऽपि समागात् , तदा राजा वसुदेवमके निधाय जगाद-बन्धो! अबश्वस्तवाओं काश्येमधिकं दृश्यते, तेनाऊ नुमीयते त्वमधिकं बहिः पर्यटितुं व्रजसि । काले विकाले वाऽवसरमापनः कश्चित्त्वां छलयित्वा विरूपमापादयिष्यति । वयं राजानः, विपक्षाश्च बहुलाः सन्ति । अतस्त्वां हितं शास्मि-यदय प्रभृति गृहाराम एव रमस्व, बहीरन्तुं मागाः, इति नृपोक्तिं श्रुत्वा तथाऽस्त्विति निगद्य स्वभवनमाजगाम । ततः प्रभृति वसुदेवः कुत्राप्यन्यत्र क्रीडायै नागात् , गृहाराम एव चिक्रीड । एकदा ग्रीष्मर्ती शिवादेवी नृपान्तिकं चेव्या हस्तेन घृष्टं सुरभिकर्पूरादिमिश्रितं चन्दनमङ्गविलेपनाय प्रेषीत् । तद्वीक्ष्य किमिति पृष्ट्वा वसुदेवस्तत्करादादाय स्वाहं विलिलेप । कुपिता दासी तमचे-रे किमकारि यदाज्ञा विलेप्यमासीत्तत्कथं व्यलेपि ?, अमुना कुलक्षणेनैव राजा कारागारे त्वामचैप्सीत् । तदाकर्ण्य दासी पापच्छाश्चकार-किमुक्तम् १, तदा दासी पौरोक्तं सकलं वृत्तमाचष्ट । ततो वसुदेवश्चेखिद्यमानः पौरेभ्यः चितिपतये च चोकुप्यमानोऽर्धरात्रे चैकाक्येव गृहामिर्गत्य, पश्चाद्राजा लोका वा गवेषणादि नो कुर्युर्मदर्शनाशामपि जह्युरिति धिया नगराद्वहिश्चितां प्रज्वान्य, द्वारकपाटे शोणितेन ' भो! भोः ! नागरिकाः ! शृणुत, अहं हि युष्मा ज्येष्ठधातुश्च निर्वाधहेतवे चितायां भस्मसाद्भवामीत्यालिख्य निरगच्छत् । प्रगे च लोकास्तान्यवराणि चिताश्चावलोक्य राजानं व्यजिज्ञपन् । तनिशम्य शोशुच्यमानः समुद्रविजयस्तत्रागत्य वसुदेवाधराणि विदित्वा मर्नुकामोऽभवत् । परन्तु लोकः प्रधानादिमिः प्रतिबोधितो मरणाद्वारितोऽपि शोकार्णवे निमजन् कथमपि राज्यं करोति स्म ।
इतश्च वसुदेवो प्रामाद् प्रामान्तरं पर्यटन् प्राग्भवनिदानयोगादतिसुन्दराः कचिदश, कचिदिशती:, कचिच्च पश्चशतीरेवं विद्याधरराज-नरराज-महेभ्यवर्यादीनां दासप्ततिसहस्रकन्या उपायंस्त, विद्या अपि बवीर्जग्राह । तत्रावसरे रोहकाख्यः क्षितिपतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org