________________
सप्तमं व्याख्यानम् ।
( १६३ )
मागत्य स्वपितरमुग्रसेनं जीवन्तमेव पचिणमिव काष्ठपिञ्जरे निक्षिप्य मथुराराज्यं शाशितुमलगत् । तदा पितरं पिञ्जरे दुःखमनुभवन्तं विलोक्य कंसस्य लघुबान्धवोऽतिमुक्तको वैराग्याचां लौ |
प्राग्जन्मनि वसुदेवजीवः क्वचिद्ग्रामे नन्दिषेणनामा काककृष्णो मार्जारनयनो लम्बोदरः करिदन्तुरः करभोष्ठः कपिकर्णोऽवनाटस्त्र्यस्रकपालः कुलपुत्र आसीत् । एतस्य मातापितरौ प्रथमवयस्येव मम्रतुः । मातुलौकस्येव ववृधे, यौवने च भीषणं कुरूपमेनं विलोक्य कोऽप्येतस्मै कन्यां प्रदातुं नाऽचीकमत । सर्वाः स्त्रियः पुमांसश्च निन्दन्ति स्म, तेनाऽतिचिन्तातुरो जातः । मातुलोऽवदत् - चिन्तां मा कृथाः सन्ति मे सप्त दुहितरः, तास्वेकां ते दास्यामि । तच्छ्रुत्वा पुत्र्य ऊचिरे - पितरौ ! वयं सप्तापि मगिन्यः सुखेन कृतान्तसदनं वजिष्यामः, परमेनं नैव वोढारं करिष्यामः । तदुतिं श्रुत्वा मृत्युरेव मे श्रेयान्, इति निश्चित्यैकदा मुमूर्षुर्नन्दिषेणः कस्यचित्पवर्तस्य शिखरमारुह्य पतितुं यावदैच्छत्, तावत्तत्रैको मुनिः पतनान्निवार्य जगाद - इत्थमात्मघातेन भवान्तरेऽपि विविधं दुःखमेवाऽनुभविष्यसि, अतो मा म्रियस्व, धर्ममाराधय एष समाराधितः कुरूपमपि माराधिकरूपं कुरुते, रङ्कमपि राजानं करोति, किमधिकं ब्रवीमि १, चिन्तामणिमिव धर्म जानीहि, स एव सर्व समीहितं दातास्तीतिसाधुवचसा प्रतिबुद्धो भूत्वा दीचां लात्वा साधुवैयावृत्यकरणमभ्यग्रहीत् । ततो मासं चपयन्नपि साधूनां वैयावृत्यं यथावदकरोन्मनागपि मनसि ग्लानिं नाप्नोत् । अथैकदा सुरनायकः सदस्येनं प्राशंसीत् - यदधुना मर्त्ये नन्दिषेणमुनिरिव साधुवैयावृत्यकारी कश्चिदपरो नैवास्ति । तत्राऽविश्रम्भमाणः कश्चिद्देवस्तत्परीचायै तत्रागत्यैकमतीसाररुजार्त्त साधुं विकुर्व्य ग्रामाद्बहिरतिष्टिपत् । ततो मुन्यन्तररूपेण नन्दिषेणान्तिकमागत्य जगाद - भोः ! ग्रामाद्वहिरेको मुनिरतीसारग्रस्तस्तिष्ठति, को जानाति रोगाच्छुटिष्यति मरिष्यति वेति ? । तन्निशम्य मासचपणपारणं विहाय तदीयं वैयावृत्यं चिकीर्षन्नगरे प्रासुकं वारि प्रतिसदनं गवेषयन् सुरमायया क्वाप्यलभमानोऽपि पश्चात्तापं कुर्वन् प्रान्ते चैकत्र गृहे प्रासुकजलं लब्ध्वा तदन्तिकमागात् । तमागतं विलोक्य रुजार्त्तः साधुः कोपात्तदानीतं वारि पादेन नीचैर्निपात्योचे -रे मूर्ख ! इयता विलम्बेन कथमागतोऽसि ?, इत्थं भत्सितोऽपि नन्दिषेणस्तं निजस्कन्धे धृत्वा नगरं प्रति चचाल | मार्गे च स मुनिर्देवमायया विष्ठां तदुपर्यकरोत् तथा च तदङ्गं व्यानशे । तदापि विकृतिमनयन्तं नन्दिषेणमुदीक्ष्य नितरां प्रसद्य सुररूपेण प्रत्यक्षीभूय, सर्व सुरेशसभाजावं वृत्तं विज्ञप्य निजापराधं चमयित्वा स्वस्थानमाययौ । इत्थं द्वादशवर्षसहस्रं संयमं परिपान्य प्रान्ते निरशनमकरोत् । तदवसरे कश्चिच्चक्रवर्ती सभार्यस्तं १ प्रन्थांतरे पचपचाशत्सहस्रांऽब्दों चारित्रं पर्यपालयदित्यभिहितम् |
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org