________________
(१९२)
श्रीकल्पसूत्रार्थप्रबोधिनी. स्याः पूर्जी जातं पुत्रं कास्यिकमञ्जूषायां विवा, तत्र नामाङ्किता मुद्रिकामपि निधाय पिधाय च तां यमुनायां प्रावाहयत् । सैव पेटिका वहन्ती शौरीपुरे समायाता । तदवसरे घृततैलादिकं विक्रीणान: सुमद्रवणिक् स्नानं विदधत्तां पेटिकामानीय समुद्घाट्य, सदन्तर्नामाङ्किता मुद्रिका दिव्यं बालकश्चावलोक्य गृहं समानीय भार्याय ददौ । उवाच च लोकान्-यन्मे भार्या या गूढगर्भायाः पुत्रो जातस्तस्य 'कंस' इति नाम दधे । स हि क्रमेण वृद्धिमापनः परेषां शिशूस्ताडयामास । तेन बहुलोकैः प्रत्यहमुपालन्धः सु. भद्रो दध्यौ-यदहं साधारणोऽस्मि, प्रयन्तु राजपुत्रो वर्तते लोकानुपद्रवति च भृशमतो मे बहवो लोका वैरायन्ते । मदालये नैष निर्वोढुमर्हतीति विचिन्त्य तं बालं वसुदेवाय समर्पयामास । सोऽपि प्रेम्णा वसुदेवं सेवितुं लग्ना, वसुदेवोऽपि कंसं कृपादृशा पश्यनासीत् ।
तत्रावसरे वसुराजान्वये जयद्रथभूपतेः सुनुर्जरासन्धप्रतिवासुदेवः खण्डत्रयशासिता राजगृहे राज्यं कुर्वन्नास्ते । सकला यादवा अपि तदादेशं सहर्ष वहन्ते । स जरासन्ध एकदा पत्रं लिखित्वा दूतहस्तेन समुद्रविजयाय प्रेषीत्-यद्वैतान्यनगासन्ने सिंहपुरे सिंहनामा पतीपती राजाऽस्ति, तं जीवन्तमेव बद्धवा मत्पार्श्वे य ानयिष्यति तस्मै जीवयशानाम्नी स्वपुत्री तदमिमतं नगरञ्चैकं प्रदातास्मि । तत्पत्रं वाचयित्वा समुद्रविजयस्तत्र गन्तुं चमं सजयितुमादिशत् , तदा वसुदेवस्तं प्रयियासन्तं निवार्य कंसेन सह ससैन्यस्तत्र गत्वा तेन सह चिरं युद्धवा कंसस्तं सिंहपल्लीपतिं बद्धा वसुदेवाय समार्पयत् । इतश्च वसुदेवे प्रयाते समृद्रविजयः कोष्ठकनैमित्तिकमपृच्छत-जीवयशा वसुदेवयोर्मेलाएकः सम्यग् वर्तते नवेति ? । सोऽवक जीवयशा परिणीता सती बोहुः पितुश्च कुलं चयं करिष्यति तत्र संशयं मा कृथाः । तनिशम्य महतीं चिन्तामापत्-यदसौ विजित्य सिंह समेष्यति चेदवश्यमस्मै दास्यति जीवयशापुत्री जरासन्धः । इत्थं यावदासीचिन्तान्तुरस्तावद्वसुदेवोऽपि कृतकृत्यस्तत्रागत्यामिलत् । चिन्तितं समुद्रविजयमपृच्छत्-राजन् ! का ते चिन्ता, यया विलक्षो दृश्यसे ?, समुद्रविजयो रहसि नैमित्तिकोक्तं सकलं वसुदेवमबोधयत् । वसुदेवोऽवदत्-मा भैषीः, यदमुं सिंहं नाहमवघ्नाम् किन्तु कंसो बबन्ध । समुद्रविजयो मनस्येवमचिन्तयत्-यदस्मिन् वणिपत्रे ताग्रबलं मरौ कन्पतरुरिव नैव सम्भवति । ततएव शीघ्रं सुभद्रवणिज समाकार्य पप्रच्छ-मोः ! तवायमात्मजोन्यो वाऽस्तीति सत्यं कथय ? तनिशम्य स सर्व निवेद्य तां मुद्रिकाश्च राजे दत्तवान् । ततो मुद्रिका कंसाय प्रदाय बद्धवानीतसिंहेन सह कंसं जरासन्धपार्श्वे प्रेषीत् । सोऽपि प्रतिज्ञापू] कंसेन निजपुत्री जीवया परिणायितवान् । परिणीय कंसो मथुराराज्यमयाचत । जरासन्धा ससैन्यं तद्राज्यं तस्मा अदात् । ततः कंसा ससैन्यः समार्यो मथुरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org