________________
सप्तमं व्याख्यानम् ।
( १९१) ६, धरणः ७, पूरणः ८, अभिचन्द्रः ६, वसुदेवः १०; एते दशार्दा उच्यन्ते । पुग्यौ च द्वे कुन्ती-माद्री नाम्न्यौ जज्ञाते । तयोः कुन्ती पाण्डवे माद्रीश्च दमघोषाय ददौ । एषा माद्री शिशुपालं पुत्रमजीजनत् , तं कृष्णो जघान । मृते चास्मिनन्धकवृष्णिर्दीक्षां ललौ । मथुराराज्यमुग्रसेनः शशास । तस्याऽऽसीद्धारणी नाम्नी राज्ञी । शौरीपुरे च राजा समुद्रविजयस्तत्पत्नी शिवादेवी नेमिकुमारं प्रास्यत । सकला राजकुमाराः सहैव तिष्ठन्ति स्म । अन्यदा नगराबहिरुद्याने कश्चिन्मासोपवासी तापस आगात् । तस्यैष नियमः--यन्मासाभ्यन्तरे स्वयमागत्य पारणायै निमन्त्रयेत, तस्यैवौकसि मासान्ते पारयितव्यमितरेषां सदने नेति । यदि निमन्त्रयिता निमंन्त्र्य तद्दिने तदन्तिकमेत्य तं नाऽऽकारयेत् , केनापि हेतुना विस्मरेत्तर्हि प्रथममासक्षपणस्य पारणमकृत्वैव पुनर्मासक्षपणं करणीयम् । इत्थं भूतं तमेकदा क्रीडायै वनं गत उग्रसेनो राजा निमंत्र्य गृहमायातः, पारणादिवसे च तदाहानं विसस्मार । सन्ध्यापर्यन्तं तदाहृतिं प्रतीक्षमाणस्तापसः पुनर्द्वितीयं मासक्षपणं प्रारेभे। क्रियदिवसानन्तरं पुनरेकदा तत्स्थानं गतो राजा तं तापसमालोक्य सस्मार-यन्मयैष निमन्त्र्यापि न भोजित इति महाऽनुचितमभूत् । एवमनुतप्य पुनस्तं द्वितीयपारणायै निमन्त्रयामास । परन्तु गृहाऽऽगतो राजा द्वितीयमासिकपारणादिवसेऽपि विस्मृत्या तं नाजूहवत् । तृतीयमासेऽपि पुरेव तं निमन्त्र्य तदिने तद्गवेषणं नाकरोत् । तदा तापसश्चुकोप-यन्मामसौ त्रिवारं निमन्त्र्याप्येकवारमपि नाऽभोजयदतोऽहं कृतैतत्तपाप्रभावाद्भवान्तरे दुर्धियोऽमुष्य राज्ञः केशकारी स्यामिति निदानं कृत्वा प्राण मजहात् । स एव मृत्वा चितिपतेरुग्रसेनस्य भाोया धारण्या गर्भेऽवततार । ततस्तृतीये मासे राया दोहदो जज्ञे-यदहं राज्ञो बुक्कामांसमश्नीयाम् । तदपूर्त्या राझ्या देहे कायमधिष्ट । ततो राजा तत्कारणं पप्रच्छ, तदा राज्ञी निजदोहदमाख्यत् । तनिशम्य चिन्ताकुलो राजा प्रधानोक्तयुक्त्या तं दोहदमपारीत् । राज्ञी तद्दष्टगर्भनिपातनाय बहुधा प्रायतत परन्तु भाव्यप्राबल्यानाऽपतत् । ततो नवमा
१ श्रीऋषभदेवसूनुकुरुराजेन निजनाम्ना वासिते कुरुदेशे तत्कुलजा बहवो राजानो जज्ञिरे । ततस्तदन्वयजो हस्तिराजो हस्तिनापुरं निर्माय न्यवसत् । तदनन्तरं तत्र सुभूमचक्री बभूव । तदन्वये शन्तनुरभूत्तस्य द्वे भार्ये । विद्याधरपुत्री गङ्गा गाङ्गेयं पुत्रमसोष्ट स एव · भीष्मपितामहः ' कथ्यते । द्वितीया सत्यवती चित्राङ्गद-विचित्रवीर्याख्यौ पुत्रौ प्रसूतवती । प्रान्ते शन्तनुचित्राङ्गदाय राज्यं दत्त्वा व्यपद्यत, एनमेकदा रणे नीलाङ्गदो जघान । तदनु विचित्रवीर्यो राजाऽभूत् । एतस्याऽम्बिकाऽम्बालिकाऽम्बाख्यास्तिस्रः पल्यो जातास्तासु प्रथमा धृतराष्ट्रमसूयत, स च गान्धार्याद्यष्टपत्नीषु दुर्योधनादिशतपुत्राञ्जनयामास । द्वितीया पाण्डं प्रासोष्ट । पाण्डुश्च कुन्त्यां युधिष्ठिर-भीमार्जुनान्, माव्यां नकुल-सहदेवौ चोदपादयदेते पश्चापि पाण्डवाः कथ्यन्ते, इति पाण्डवानामुत्पत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org