________________
( १६० )
श्रीकल्पसूत्रार्थ प्रबोधिनी.
स्वप्नानालुलोके । ततः सार्धसप्तदिनाधिकनवमासीं मातुर्गर्भे स्थित्वा श्रावणशुक्लपञ्चम्यां चित्रर्क्षे चन्द्रमसायुक्ते भगवान् नेमिनाथः प्रादुरासीत् । भगवति गर्भस्थे माता रिष्टरत्नमयं नेमिं ( चक्रधारां-रथप्रधिं स्वप्नेऽद्राक्षीत्, अतएव पित्राऽरिष्टनेमिरित्यभिधाऽकारि । तत्र रिष्टशब्दोऽमङ्गलवाची तद्दोषपरिहारित्वान्नास्ति रिष्टममङ्गलमस्मादित्यन्वर्थमरिष्टनेमीति नाम कृतवान्। लोकानां रिष्टभञ्जनाच्च तन्नाम्ना सर्वत्र ख्याति - मगात् । अत्रापि स्वप्नादिनामकरणान्तं वीरवदेवाऽवगन्तव्यम् ।
शैशवे चैनं प्रभुमिन्द्राणी समागत्य भृशमरीरमत् । यदा यदा प्रभोर्बुभुक्षाऽजायत तदा तदा सुरसञ्चारितसुधामयमङ्गुष्ठमेव चुचूष, मातुः स्तनौ नैव पपो । इत्थं वरीवृध्यमानो नवनीरदच्छविर्मदनमूर्तितोऽप्यधिकां कान्तिं बभार । अथैकदा पालनायां रममाण आसीदरिष्टनेमिः । तत्रावसरे सुरनायकः सदसि प्रभोर्बलं प्रशशंस । तदश्रद्दधानः कश्चिदल्पधीः सुरस्तत्राऽऽगत्य भगवन्तमुत्पाट्य व्योम्नि सपादलक्षयोजनमितं दूरं निनाय । इयहरं नीयमानः प्रभुस्तन्मायां विदित्वा किञ्चिन्मात्रमात्मबलमदर्शयत् तेनैवाऽधस्तान्निपतन् धरान्तः शतयोजनानि गत्वा तस्थौ । तदा शक्रेन्द्रस्तत्राऽऽगत्य दयया तममूमुचत् । भगवन्तञ्च तस्यामेव पालनायां स्थापयित्वा वन्दनं स्तवनञ्च विधाय स्वस्थानमायातः । ७८ यदुवंशोत्पत्तिः -
यदुवंशे भगवतोऽवतीर्णत्वात्तदन्वयमाचष्टे – युग्मजाताभ्यां हरिहरिणीभ्यां सूनुरश्वनामाऽभूत्, तत्पुत्रो वसुराजोऽभवत्तत्रैवान्वये यदुरभूत् । तत्पुत्रः शूरः, तस्य द्वौ पुत्रौ शौरि - सुवीरनामानौ बभूवतुः, असौ शौरये मथुराराज्यं प्रदाय सुवीरं यौवराज्ये संस्थाप्य प्रात्राजीत् । ततः शौरीराजा सुवीराय मथुराराज्यं दच्वा कुशावर्त्तदेशमागत्य शौरीपुरनामकं नवं नगरं निर्माय तत्र राज्यं कर्त्तुमलगत् । तत्र शौरे राज्ञोऽन्धकवृणिनामा पुत्रो बभूव । सुवीरस्य भोजकवृष्णिनामा पुत्रो जज्ञे तत्पुत्र उग्रसेनोऽजायत, तस्मै राज्यं दवा भोजकवृष्णिः प्रवव्राज । अन्धकवृष्णेश्च दश पुत्रा अभूवन्समुद्रविजयः १, अक्षोभः २, स्तमितः ३, सागरः ४, हिमवन्तः ५, अचलः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org