________________
सप्तमं व्याख्यानम् ।
( १८६ )
पर्यवज्ञानवन्तो मुनयः षट्शतम् १०, सिद्धाः श्रमणाः सहस्रम् ११, संयत्यश्च सिद्धा द्विसहस्रम् १२, विपुलमतयो मुनयः सार्धसप्तशतम् १३, वादिनश्च मुनयः षट्शतम् १४, अनुत्तरविमानगा एकावतारिणो मुनयो द्वादशशतमासन् १५ इति परिवारः । श्रीपार्श्वविभोर्मुक्तिगामिनां मर्यादा द्विधा जज्ञे युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च । तत्र पार्श्वनाथादारभ्य चतुःपुरुषीं यावन्मुक्तिमार्गश्चचाल प्रवाहरूपेण । भगवतः केवलज्ञानोत्पत्तेः पश्चात् त्रिवर्षानन्तरं सिद्धिगमनारम्भः प्रावर्त्तत । ७६ प्रभोर्निर्वाणकथनम्
---
इत्थं श्रीपार्श्वजिनो गार्हस्थ्ये त्रिंशत्समाः, छाद्मस्थ्ये त्र्यशत्यिहोरात्रान् कैवल्यपर्याये किञ्चिदूनसप्तत्यब्दान्, श्रमण्ये च परिपूर्णसप्ततिवर्षाणि परिपाल्य सकलं शतमायुः पूरयित्वा वेदनीयाऽऽयुर्नामगोत्रानुबन्धिकर्मक्षये जाते सत्यस्यामेवाऽवसर्पिण्यां दुष्षमसुषमारके बह्वतिक्रान्ते श्रावणशुक्लाष्टम्यां सम्मेतशैलशिखरोपरि विशाखर्क्षे चन्द्रयोगयुक्ते कृतमासिकानशनो निर्जल आत्मना चतुस्त्रिंशत्तमः आश्रितशैलेशीयोगः कायोत्सर्गे तिष्ठन् प्रलम्बितभुजद्वयः पूर्वाह्नवेलायां मोक्षं ययौ, सर्वदुःखाद्विमुक्तोऽभवत् । इति पार्श्वनाथविभोश्चरित्रम् ।
७७ नेमिनाथस्य जन्म, शैशवे सुरकृतबलपरीक्षा च
अथ द्वाविंशतितमस्तीर्थङ्करः श्रीअरिष्टनेमिश्च्यवन - जनन - प्रव्रजन - कैवल्योत्पादन - मोक्षाऽऽसादनरूपाणामानि पञ्चकल्याणकानि चित्रायां तारकायामेव लब्धवान्, अतः पञ्चचित्रोऽध्यजायत इति संक्षिप्तवाचना ।
विशिष्टा यथा - तस्मिन् काले अर्हन्नेमिनाथः प्रभुरपराजिताख्यविमानाद द्वात्रिंशत्सागरोपमायुष्काच्च्युत्वाऽस्मिञ्जम्बूद्वीपे भरतक्षेत्रे शौरपुिर्यां समुद्रविजयस्य राज्ञः पत्न्याः शिवादेव्या गर्भे कार्त्तिककृष्णद्वादश्यां चित्रानक्षत्रे चन्द्रयोगयुक्तेऽवततार । तदा तन्माता चतुर्दश महा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org