SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ (१८८) श्रीकल्पसूत्रार्थप्रमोधिनी. तदा भयभ्रान्तः स मेघमाली खस्त्रियासहाऽनन्यशरणः प्रभोश्चरणयोः पतित्वा, त्रायस्व, त्रायस्वति भाषमाणः क्षमस्व मेऽज्ञानकृतमपराधम् , पुनर्नेदृशं विधास्यामि कदापि । धरणेन्द्रोऽजल्पत्-रे! त्वं भगवन्तं शरणी कृतवानतस्त्वां स्वधर्मिवात्सल्यधिया कृतागसमपि मुञ्चामि । ततो दशजन्मकृतं वैरं क्षमयित्वा नाटकं विधाय कमठजीवः प्रभुं नमस्कृत्य स्वस्थानं यातः । धरणेन्द्रोऽपि स्वामिनमभिवन्द्य स्वस्थानमागात् । त्रीणि दिनानि भगवन्मौलौ धरणेन्द्रस्थापितमहिच्छत्रं यदस्थादतः सा नगरी सर्वत्र — अहिच्छत्रा' इति प्रख्यातिमगात् । ७५ प्रभोः केवलज्ञानं, तत्परिवारसंख्यानश्च____अथ विहरमाणः प्रभुः पञ्चसमिति-त्रिगुप्तिभ्यां सहितः, व्यशीति दिवसान् व्यत्यैत् । चतुरशीतितमदिने चैत्रकृष्णचतुझं विशाखः प्रथमे यामे धातकीतरोस्तले षष्ठेन भक्तेन निर्जलेन वर्तमानस्य ध्यानान्तरिकायां तिष्ठतः पार्श्वनाथस्याऽव्याघातमनावरणं सूर्यवदुज्ज्वलं केवलज्ञानं केवलदर्शनश्चोत्पेदे । तेन समस्तचराऽचरस्य भवादिकं विजानन् परिपश्यश्च व्यवहिताऽव्यवहितं करामलकवद्विचचार । अमुष्याऽष्टौशुभाऽऽर्यघोष-विशिष्ट-ब्रह्मचारि-सोम-श्रीधर-वीरभद्रयशस्वीतिमुख्यागणधरा आसन् १, साधवश्चोत्कृष्टाः षोडशसहस्रसंख्याका आर्यदत्तप्रभृतय आसन् २, पुष्पचूलाप्रमुखाः साध्व्यश्चोत्कृष्टा अष्टात्रिंशत्सहस्रमासन् ३, सुव्रतादयः श्रावकाश्चतुष्षष्टिसहस्राधिकलक्षप्रमाणा बभूवुः ४, सुनन्दाप्रमुखाः श्राविकाश्च सप्तविंशतिसहस्राधिकत्रिलक्षप्रमिता आसन् ५, अकेवलिनोऽपि तत्तौल्यवन्तः श्रुतकेवलिनश्चर्तुदशपूर्वधराः सार्धत्रिशतमासन् ६, अवधिज्ञानवन्तो मुनयश्चतुर्दशशतम् ७, केवलज्ञानिनः श्रमणाः सहस्रम् ८, वैक्रियलब्धिमन्तो मुनय एकादशशतम् ९, ऋजुमतिका मनः १ आवश्यके च ते दशोक्ताः, परन्तु तेषां द्वयोरल्पायुष्ट्वादत्राऽष्टावेवोच्यन्ते, स्थानागटीकायामेवमेवोक्तत्वादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy