________________
सप्तमं व्याख्यानम् ।
Jain Education International
७४ मेघमालिसुरकृतोपसर्गः -
J
"
"
अथैकदा विहरमाणो विभुः कस्यचिन्नगरस्य समीपे तापसाश्रमनिकटे वटवृक्षस्याधः कूपपार्श्वे कायोत्सर्गेण तस्थौ । तत्र प्राग्भवीयो वैरी मेघमालीदेवः कमठजीवोऽवधिना भगवन्तं ज्ञात्वा प्राग्वैरमनुस्मृत्य क्रुधाकुलः प्रथमं वेतालरूपेण प्रभुं भीषयामास । ततः सिंहरूपेण, वृश्चिकरूपेण, सर्परूपेण, मत्तद्विपेन्द्ररूपेण रूपान्तरेण च बहूनुपसर्गानसह्यानकरोत् परन्तु भगवान्मनागपि नैवाऽविभेत् । ततोऽधिकं कुध्यन् घोरं जगर्ज, विद्युत्पातेन सह कल्पान्तक्षमं प्रचण्डं वातमवीवहत्, तदुत्क्षिप्तधूलिपटलेन गगनमण्डलमाच्छन्नमभूत् । ततः सधूलिं मुसलधारां वृष्टिमकार्षीत् ब्रह्माण्डभाण्डं स्फोटयन्निव घोरारवं व्यतानीच्च । तेन नदीपूर इव सर्वत्र जलौघस्तथा ववृधे यथा भगवानाकण्ठं निरमज्जत्, तथापि प्रभुः किञ्चिदपि नो तत्रास । अत्रान्तरे धरणेन्द्र आसनकम्पनाद् भगवदुपसर्गं ज्ञात्वा, पद्मावत्याग्रमहिषीभिः सत्रा तत्रागत्य भगक च्छिरसि फणाटोपलक्षणं छत्रं न्यधत्त । चरणयोरधस्तात्कमलरचनामकृत । इत्थं जलबाधावरोधमुभाभ्यां प्रयत्नाभ्यां कृत्वा स्वयं प्रभोरग्रे सहेन्द्राणीभिर्नाटकं कर्त्तुमारेभे । परन्तु तादृशीं जगल्लयकरीं वारिधारां भगवदुपरिपतन्तीं कृतप्रयासस्य वैफल्यं चावलोक्य धरणेन्द्रो दध्यौअहो ! कथमेष मेघः प्रलयकाल इव चिरमेवं वर्षति मामको यत्नो वा कथमत्राजीद्वैयर्थ्यम् ?, एवं वितर्कयन्नवधिप्रयोगेण मेघमालिदेवकृतमुपसर्गं विदित्वा चोकुप्यमानस्तमेवं वक्तुमारेभे - रे पापिष्ठ ! दुष्ट !! अधमाधम !!! त्वया किमकारि यत् त्रिजगत्पूज्यस्य भगवत उपरि दुःसहानीहशानुपसर्गानकृथाः ? | भगवांस्तु त्वदुपरि परोपकृतिमकरोत् त्वन्तु तत्स्थाने ईदृशं कष्टमकृथाः । अयं स्वयमतुलां शक्तिं बिभ्रदपि दयाम्बुधित्वात्सर्वं सासहीति स्म । अहन्तु तन्न सहिष्ये, अधुनैव त्वां तत्फलं दर्शयामि, तिष्ठ तिष्ठ, मत्तलुटिखा व यास्यसीत्युदीर्य तदुपरि वज्ररत्नमक्षिपत् ।
"
"
( १८७ )
For Private & Personal Use Only
www.jainelibrary.org