________________
(१८६)
श्रीकल्पसूत्रार्यप्रबोधिनी. इति दन्तिनो वृत्तं निशम्य चम्पानगरीपतिः करकण्डुराजा प्रभुं वन्दितुं यावत्तत्राऽऽगात् , तावत्प्रभुस्ततो व्यहरत । तत्र प्रभुमनवलोक्य मनसि महादुःखमकरोत् । तद्दःखमवधिप्रयोगेण विदित्वा सुरनायकस्तत्राऽऽगत्य, नवहस्तप्रमाणां प्रभोः प्रतिमां प्रकटयामास। ताञ्च प्रतिमामपूजयद्राजा, अचीकरच्च तत्रैकं विशालं मन्दिरम् । अपप्रथञ्च तत्र 'कलिकुण्ड ' नामातीर्थः, गजश्च व्यन्तरो भूत्वा तन्मान्दराधिष्ठाता जज्ञे । ७३ कुक्कुटेश्वरतीर्थस्थापना--
एकदा श्रीपार्श्वनाथस्वामिनं कायोत्सर्गे तस्थिवांसं विलोक्य राजपुरनगराधिपतिरीश्वरराजो जातिस्मृतिज्ञानं लब्ध्वा मुमूर्छ ! बद्दपचारैलब्धचेतनं राजानं मन्त्री पप्रच्छ-कथमकाले तवेदृशी मूर्छाऽजायत ?, राजोवाच-श्रूयताम्, अहमेनं पार्श्वप्रभुमवलोक्य प्राग्भवानपश्यम् , यदहं पूर्वजन्मनि वसन्तपुरे कुष्ठरोगग्रस्तो ब्राह्मण आसम् । एकदा तदातः सन् गङ्गायां पतित्वा मर्नुकामस्तस्त्तीरमागाम्, तावत्तत्र कुतश्चिदागतश्चारणमुनिस्तथा मर्तुमुद्यतं मां निवार्य प्रत्यबोधयत् । तदुपदेशात्प्रतिबुद्धः सम्यक्त्ववासनावासितान्तःकरणः प्रत्यहं जिनमन्दिरे दर्शनार्थं यातुमलगम् । एकदा मन्दिरे मामवलोक्य पुष्कलनामा श्रा. वक उवाच-भोः ! मन्दिरे कथमायासि ?, तदनु स तत्रस्थमेकं मुनिमपृच्छत्-अयं कुष्ठी मन्दिरे समेति तत्र दोषो लगति न वा ? । मुनिरूचेदूरतः प्रभोनमने कापि बाधा नास्ति, स्पर्शे दोषोऽस्ति । एष कुष्ठी विप्रोऽग्रिमे भवे राजपुरनगर ईश्वरनामा राजा भविष्यति । तत्र कायमुत्सृजन्तं पार्श्वनाथमुदीक्ष्य जातिस्मृति लप्स्यते । स एवाऽहं राजा जातोऽस्मि । तत्र राजा परया भक्त्या मन्दिरं निर्माप्य पार्श्वनाथमतिष्ठिपत्स एव — कुक्कुटेश्वर ' तीर्थः पप्रथे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org