________________
सप्तमं व्याख्यानम् ।
( १८५ )
ज्ञानेन दीक्षासमयं ज्ञात्वा वार्षिकं दानं प्रारभे । एतस्य दानप्रमणादिकं श्रीवरदानवदवगन्तव्यम् । इत्थमाब्दिकं दानं दत्त्वा पौषकृष्णेकादश्यां प्रथमे प्रहरे देवैर्नरैश्वोद्यमानायां विशालाख्यायां शिविकायामासीनः श्रीवीरविभुरिव महताडम्बरेण सुराऽसुरनरपरिषदाऽनुगम्यमानमार्गः प्रभुर्वाराणस्या नगर्या मध्यपथेन निर्गच्छन्नाश्रमपदाभिधानोद्यानेऽशोकवृक्षस्याऽधस्तादागात् । तत्राऽऽगतो भगवाञ्छिबिकाया अवतीर्य स्वहस्तेनैव सर्वाऽऽभरणादीन्युत्तार्य पञ्चमौष्टिकं लोचमकरोत् । आराधिताऽष्टमतपा विशाखर्चे चन्द्रयोगे गृहीतेक देवदूष्यवसनः पुरुषाणां त्रिशत्या प्रात्राजीत् । इत्थं श्रामण्यं नीतो भगवान् पार्श्वनाथस्त्र्यशीतिदिनानि व्युत्सृष्टकास्तस्थौ । तत्र सासहीति देवकृतमानवकृततिर्यक्कृतान् अनुकूलान् प्रतिकूलाँश्चोपसर्गान् । प्रभुरष्टमतपःपारणं कोपटाख्यसन्निवेशे धन्नाभिषस्य सद्मनि परमान्नेन व्यधत्त, जज्ञिरे च तत्र पञ्चदिव्यानि द्वादशकोटिदीनारवृष्टिरप्यभूत् ।
७२ कलिकुण्डतीर्थ स्थापना
अथैकदा श्रीपार्श्वनाथो विचरन् कादम्बरीकाननमागत्य कलिङ्गि - रगिरेरधस्तात्कुण्डसरस्तीरे कायं व्युत्सृजन्नतिष्ठत् । तत्र महीधरनामा दन्ती जलं पिपासुरागात्, स हि भगवन्तमुदीच्य जातिस्मृतिज्ञानमासाय प्राग्भवानपश्यत् यदहं पूर्वजन्मनि हेमलनामा कुलपुत्र आसम्, मां वामनमालोक्य सर्वे लोका उपहसन्ति स्म । तेन मे महान् खेदोऽभूत्, तत एकदा मां विषण्णमालोक्य सुप्रतिष्ठनामा कश्चित्सखा गुर्वन्तिकमनैषीत् । तत्र च श्रावकधर्मानुररीकृतवानहम् । प्रान्ते च स्वस्मिन् वामनत्वं लोकानामुपहासास्पदत्वान्निन्दन्निदानमकुर्वि - यद् भवान्तरे स्यान्मे महाकाय इति । तेनैव निदानेनाऽस्मिन्भवे हस्तिशरीरं नीतोऽस्मि । अतो भगवन्तं करधृतकमलजलधारया स्नपयन्नानर्च ।
२४
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org