________________
( १८४ )
श्री कल्पसूत्रार्थप्रबोधिनी.
वियुक्तः कमठनामा तापसो यथारुचिभूमौ पर्यटन्नत्राऽऽगतोऽस्ति । तमेवाऽभ्यर्चितुं सर्वे लोका यान्ति । तच्छ्रुत्वा पार्श्वकुमारोऽपि तत्र गत्वा ज्यलत्काष्ठान्तर्दन्दह्यमानं सर्पमवधिना विलोक्य तमुवाच - तपस्विन् ! जीवदयां विना तपस्यन्मुधा कथं सहसे किलेदृशं कष्टम् ?, यतः - धर्मस्य मूलं दया वर्त्तते, मूलं विना शाखादिवत्तां विना जपादिधर्मः कथमपि नैव फलतीति सत्यमवेहि । भगवतोक्तं निशम्य प्रकुपितस्तापसोऽजल्पत् - भवादृशा राजपुत्रा गजतुरगादिरमणमेव विदन्ति, धर्मन्तु तपोधना मादृशा एव जानन्ति, अतस्त्वं धर्मविषये किमपि मा वादीः । प्रभुणा तदैवाग्निकुण्डात्तत्काष्ठं बहिरानीय कुठारेण विदार्य सन्तापाकुलितो त्रियमाणः फणी दर्शितः । स फणी भगवदादिष्टपुरुषमुखतो नमस्कारमन्त्राञ्छ्रुत्वा तत्कालं व्यसुर्भूत्वा धरणेन्द्रो जातः । एतत्सर्वं प्रभुणा स्वयमकारि दयानिधित्वादिति कचित्पुस्तके दृश्यते । तदा सर्वेरहो ! कीदृगयं ज्ञानी वर्त्तते यददृश्यमपि विवेद, इत्थं स्तूयमानः प्रभुः स्वसदनमायातः । कमठन्तु सर्वे लोका भृशं निनिन्दुर्यदयं मूर्खोऽस्ति इत्याद्यवर्णवादं श्रावं श्रावं तापसो ललजे । ततो मानभ्रष्टः कमठोऽन्यत्र गत्वा चिरं मिथ्यातपस्तत्वा मृत्वा भवनपतौ मेघमाली नामा देवो जातः ।
अथैकदा वसन्त भगवान् प्रभावत्या सह वनं क्रीडितुमागात् । तत्रैकस्मिन् प्रासादे सुखासीनो विभुर्नेमिनाथ भगवान् सहजन्यैर्गच्छन् राजीमतीमतिरूपवतीं त्यक्त्वा दीक्षामादितेति चित्रे विलोक्य वैराग्यमाप्नोत् । ततः सत्यसन्धं महाबलवन्तं सर्वजीवदयावन्तं विनयवन्तं त्रिंशत्समा भुक्तसांसारिकसौख्यं श्रीपार्श्वनाथं समागता लोकान्तिकदेवा इष्टगिरा प्रत्यबोधयन् - भगवन् ! जय जय तूर्णं तीर्थं प्रवर्त्तय ! कल्याणशालिन् ! प्रबुध्यस्व प्रबुध्यस्व । प्रागेव भगवान् गार्हस्थ्येऽवधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org