________________
सप्तमं व्याख्यानम् ।
(१८३) राणसीनगर्यामश्वसेननरपतेर्वामाराइया गर्भेऽवतीर्य पौषकृष्णदशम्यामजायत । अत्र भगवति गर्भगते मातुश्चतुर्दशमहास्वप्नावलोकनतत्फलकथनजननमहोत्सवादिकं सुरकृतं श्रीमहावीरवदवगन्तव्यम् , नवरं यदस्मिन् गर्भस्थे माता पार्श्वे सर्पन्तं कृष्णसर्पमदर्शत् , अतः पिता पार्श्वनाथ ' इत्यभिधामकरोत् । इत्थं पञ्चधात्रीभिाल्यमानः शुक्लपक्षे चन्द्रमा इव वरीवृध्यमानः पितरौ चाऽसीममानन्दयन् क्रमशो यौवनं क्यः प्राप्य नवहस्तशरीरप्रमाणः परमां सुषमां व्यधत्त । तत्रावसरे कुशस्थलनरेशस्य म्लेच्छैरवरुद्धस्य प्रसेनजितो नृपस्य साहाय्यदानाय प्रयान्तं पितरं निवार्य स्यं पार्श्वनाथस्तत्र गन्तुं समुद्यतोऽभवत् । तदा सुरनायकः स्वरथं सारथिञ्च प्रैषयत् । तमारुह्य पार्श्वकुमारो व्योममार्गेण तत्रागत्य, लीलयैव सकलं म्लेच्छकुलं शरैर्व्याकुलीकृत्य कान्दिशीकाँश्च विधायाऽनीनशत् । ततो राजा प्रसेनजिन्महता महेन पा
वकुमारं स्वभवनमनैषीत् । तत्र नवनीरदश्यामं नवहस्ताकृतिकं युवानं वसूत्तरसहस्रलक्षणलक्षितं मारविजित्वरीं वपुःश्रियं वहन्तं मनोहरं पार्श्वकुमारमवलोक्य, प्रसेनजितः पुत्री प्रभावती महारूपवती पितरमबवीत्-पितः ! माममुना पार्श्वकुमारेण विवाहय ! यन्मामकं मनः कमप्यन्यं न वृणीते । यद्यपि पार्श्वकुमारस्य तां परिणेतुमाकाङ्क्षा नासीत्, तथापि प्रसेनजिद्राजा भूयस्या प्रार्थनया प्रभावती पुत्रीं महामहेन पार्श्वप्रभुणा सह परिणायितवान् । तया सत्रा प्रभुः स्वसदनमागात् , तत्र च सुखमनुभवन्नासीत्। ७१ कमठीयपश्चाग्नेरहेरुद्धरणम् , भगवतो दीक्षाऽऽदानश्च____एकदा वाराणसीनगराबहिः कमठतापस आगात् । एनं पञ्चाग्नितापिनमर्चितुं बहवः पौराः पुष्पादिपाणयस्तत्र यातुं लग्नाः । गवाक्षासीनः प्रभुरनुचरान् पप्रच्छ-भोः ! एते लोका अद्य क यान्ति ? । अनुचरा ऊचुः-स्वामिन् ! कश्चिदेको दरिद्रो विप्रः शैशवे मात्रा पित्रा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org