SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ (१८२) श्रीकल्पसूत्रार्थप्रबोधिनी. तैन मर्मणि निहतः साधुस्तकालमेव व्यसुरभूदिति षष्ठो भवः । ततो मुनिर्मध्यमवेयके देवत्वेनोत्पेदे । वनेचरोऽपि मुनिहत्यापातकात्सप्तमे नरके जात इति सप्तमो भवः।। मध्यमग्रैवेयकाच्च्युतो मरुभूतिजीवो जम्बूद्वीपे पूर्वमहाविदेहे शुभङ्करविजये पुराणपुरनगरे कुशलबासुदेवस्य सुदर्शनाराइया गर्भजो मातृ दृष्टचतुर्दशस्वप्नसूचितः सुवर्णबाहुनामा सूनुरजायत । अयं योग्ये वयसि पित्रा परिणायिताः सुरूपा बयः कन्यास्ताभिः सार्धं गार्हस्थ्यं सुखमनुभव॑श्चक्रवर्तिपदं लेभे । ततः षट्खण्डान्यसाधयत् , चिरं चक्र वर्तिसाम्राज्यमभुङ्क्त । वार्धक्ये च तीर्थङ्करदेशनां श्रुत्वा विषयवैमुख्यं नीत्वा विंशतिस्थानकतप आराध्य तीर्थङ्करगोत्रमबध्नात् । अयमेकदा निर्जनवने कायोत्सर्गेण तस्थिवान्। कमठजीवोऽपि सप्तमनरके मध्यमायुः पूरयित्वा च्युतस्तत्रैव क्षीरगुहायां सिंहत्वेनोत्पन्नः। सुवर्णबाहुमुनि वि. लोक्य प्राग्भवीयं द्वेष्यं ज्ञात्वा कोपाद्विददारेत्यष्टमो भवः । विदीर्यमाणो मुनिः शुभध्यानेन विपद्य दशमे प्राणतस्वर्गे समु. त्पेदे । सिंहोऽपि मृत्वा तुरीयं नरकं गतः, इति नवमो भवः।। __ कमठजीवश्चतुर्थनरकान्निर्गत्य कस्यचिदेकस्य निर्धनविप्रस्य पुत्रो जातः, शैशव एव मातापितरौ विपन्नावभूताम्, ततो भृशं दुःखमनुभवल्लोकैरन्नपानवसनादिना परिपुष्यमाणः क्रमेण यौवनमापन्नः स्त्रियमलभमानोऽमर्षात्तापसी दीक्षां गृहीत्वा, पञ्चाग्नितपः कृत्वा सर्वत्रलोके पञ्चाग्नितापी कमठनाम्ना पप्रथे । ७० भगवतो जन्मद्विाहश्चभगवान् श्रीपार्श्वनाथो दशमदेवलोकाच्च्युत्वा चैत्रकृष्णचतुर्थ्यां वा१ चतुर्दशाप्यमून् स्वप्नान् , या पश्येत् किञ्चिदस्फुटान् । ___सा प्रभो ? प्रमदा सूते, नन्दनं चक्रवर्तिनम् ।। वासुपूज्यचरित्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy