________________
सप्तमं व्याख्यानम् ।
(१८१) तृषाकुलः पयःपानाय समागात् । तन्मरुभूतिजीवहस्तिनं विलोक्य प्राग्वैरमनुस्मृत्य तदुपरि चटित्वा तन्मस्तकमदशत् । तेनाऽसह्यगरलव्याताङ्गः शुभध्यानेन ममारेति द्वितीयो भवः।
मृत्वा चाऽष्टमे देवलोके देवो जातः । कुर्कुटोऽपि तस्य दन्तिनः पतनात्पीलितो मृत्वा पञ्चमं नरकं ययाविति तृतीयो भवः । चतुर्थभवे मरुभूतिजीवोऽष्टमदेवलोकाच्च्युत्वाऽस्मिञ्जम्बूद्वीपे पूर्वमहाविदेहे सुकच्छनामविजये वैताढ्यगिरेर्दक्षिणश्रेण्यां तिलवननगरे विद्युतगतिराजस्य राझ्याः कनकवत्याः कुक्षौ पुत्रत्वेनोत्पन्नः । मातापितरौ करणवेग इत्या. ख्यां दध्राते । यौवने च वयास सुरूपया रूपाख्यया कन्यया पित्रा महता महेन विवाहितः पैतृकं राज्यमन्वशात् । अथैकदा रूपया सह गवाक्षे सुखाऽऽसीनः सायन्तनं वैवर्ण्यमालोक्य, वैराग्यादात्तदीक्षो वैताढ्यगिरौ हिमशिलोपरि कायोत्सर्गेणाऽतिष्ठत् । तत्रैव पञ्चमनरकादुद्धृतः सीभूतः प्राग्वैरानुसन्धानेनैनं ददंश, तद्दष्टः स ममारोति चतुर्थों भवः । ततो द्वादशे देवलोके स साधुर्देवोऽजायत, सर्पोऽपि पञ्चमे नरके जातः, इति पञ्चमो भवः।।
ततश्च्युतो मरुभूतिजीवोऽस्मिञ्जम्बूद्वीपे पश्चिममहाविदेहे गन्धिलावतीविजये शुभङ्करनगरे राज्ञो वज्रवीर्यस्य लक्ष्मीवतीराज्याः कुक्ष्युद्भूतः पुत्रोऽभवत् । मातापितृभ्यां वज्रनाभ इति नाम दः । स हि वैषयिकं सुखं भुञ्जानः पैतृकं राज्यमनुशासत्तारुण्ये वयस्येव नगरोद्याने समायातस्य क्षेमङ्करतीर्थपतेर्देशनां श्रुत्वा जगन्मिथ्या मत्वा तत्पार्श्वे दीक्षां गृहीत्वा, चैकादशाङ्गीमधीत्य जंघाचारणादिलब्धिबलेन तत्र सुकच्छविजयासन्ननिर्बलनगिरेरुपरि कायोत्सर्गेण तस्थौ । तत्रैव भ्रान्ताऽ. नेकभवः कमठजीवोऽपि पञ्चमनरकादुद्धृतः कुरङ्गनामा भिल्लोऽभवत् । सभिल्लः निजस्थानाबहिराखेटं चिकीर्षुस्तत्राऽऽगतः, साधुमवलोक्याऽयशकुनं मत्वा कोपाज्ज्वलन् पूर्वभववैरस्मृत्या बाणमेकं तदुपरि निरास्थत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org