________________
(१८०)
श्रीकल्पसूत्रार्थप्रबोधिनी. यामासुः प्रशशंसुश्च । लोकमुखात्तत्प्रशंसां निशम्य मरुभूतिय॑चिन्तयत्-~असौ मे बन्धुर्मामकेनैव दोषेण तापसीभूय दुःखमनुभवति, अतोऽहं तत्र गत्वा स्वापराधं क्षमयाणि चेद्वरमिति निश्चित्य विविध सरसमाहारं लावा तत्राऽऽगत्य कमठस्य पादयोः पतित्वा मरूभूतिः स्वापराधं क्षमयित्वा पश्चात्परावर्त्तत, तदवसरे तदुपरि कमठो महती शिलाममुञ्चत् , तच्छिलापातेन मरुभूतिस्तत्कालमेव पञ्चतामाञ्चदिति प्रथमो मरुभूतिभवः। .
तत्रार्तध्यानान्मृत्वा द्वितीयभवे विन्ध्याचलवने मरुभूतिजीवः सु. जातनामा हस्ती बभूव । कमठोऽपि दुष्कर्मयोगादेकदा नीचैरवातरन् पतित्वाऽऽर्तध्यानान्मृत्वा तत्रैव कुर्कुटजातीयसरीसृपो जज्ञे । इतश्चैकदाऽरविन्दो राजा सायङ्काले पञ्चवर्णं पयोदमालोक्य सञ्जातवैराग्यादीक्षां लात्वा पठित्वा चैकादशाङ्गी, तत्त्वा च घोराणि तपांस्येकाक्येव विहरन्नेकदा सागरचन्द्रसार्थवाहसंघेन सहाष्टापदसम्मेतशिखरादियात्रायै गच्छंस्तत्रैव विन्ध्याटव्यामागत्य सरस्तीरे ससंघस्तस्थौ । तावत्तत्र यो मरुभूतिजीवो हस्ती बभूव स निजकरिण्यादिपरिवारैः सह पयःपातुमागात् । स हि कोपात्संघमुपद्रोतुमलगत् । ततस्तद्भीत्या सर्वे लोकाः पलायिषत । मुनिस्तु कायोत्सर्गेण तत्रैवाऽतिष्ठदेनमपि हन्तुं स हस्ती वेगेनाऽधावत् , परन्तु मुनेस्तपःप्रभावाद्धन्तुं नाऽशकत् । तदा स मुनिमालोक्य जातिस्मृति लेभे, तेन प्राक्तनमात्मभवमुदीक्ष्य करेण मुनेश्चरणौ जग्राह । मुनिरपि प्रत्यबोधयत् , तेन स सम्यक्त्वमापेदे । इतरेऽपि बहवो लोकास्तदुपदेशेन प्रतिबोधमीयुः । ततो हस्ती मुनि नमस्कृत्य जलं पीत्वा स्वस्थानमाययौ । मुनिरपि ततो विहृत्याऽनुसामनाहं गत्वा यात्रां विधाय, निरतिचारं संयम परिपाल्य मृत्वा शुभगतिमापत् । एकदा श्रीमतौं मध्याह्नसमये मरुभूतिजीवहस्ती तृषार्त्तः सरसि पयःपातुं प्रविशन् पडे निमग्नः । तत्र कुर्कुटनामा व्यालोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org