________________
सप्तमं व्याख्यानम् ।
६६ श्रीपार्श्वनाथस्य भवपरिगणनम् --
अमुष्य भगवतः पार्श्वनाथजिनस्य प्राच्यान् दश भवान् दर्शयतिएतस्मिञ्जम्बूद्वीपे भरतक्षेत्रे पोतनपुरनगरेऽरविन्दनामा क्षितिपोऽस्ति । तस्य विश्वभूतिनामा पुरोहितो वर्त्तते, स्त्रीचाऽनुद्धरीनाम्नी विद्यते, पुत्रौ च कमठमरुभूतिनामानौ । एतयोर्मातापित्रोरनुक्रमेण मृतयो राजा कमठं पौरोहित्यपदे न्ययुनकू, परमेष मौर्याद्दुर्व्यसनी तस्य भार्या च वरुणाभिधाना । अपरं मरुभूतिस्तु सरलः सदाचारी धर्मात्मा, पत्नी चैतस्य वसुन्धरा नाम्नी महारूपवती चञ्चलाssसीत् । अथैकदा कमठ एनामालोक्य तद्रूपलावण्यादिना विमोहितो रिरंसया द्वित्रिवारं सप्रेम तामाजुहाव | सापि कमठोपरि बाढमनुरागमूहे । कमठस्तस्यै मनोनुकूलं वसनाऽऽभरणं दत्त्वा जातानुरागामेनां भोक्तुमलगत् । एतद् गर्हि - ताचारं कथञ्चिद्विदित्वा भर्त्तारमाख्यद्वरुणा - स्वामिन् ! ईदृशं जुगुप्सितं कर्म मा कृथाः । नोचेन्महाँस्ते लोके सर्वत्रोपहासो जनिष्यते, देवरश्च किं कथयिष्यति ?, इत्थं वारितोऽपि स यदा न न्यवर्त्तत तदा वरुणा तयोर्गर्हिताऽऽचारं मरुभूतिं सूचितवती । मरुभूतिश्च दध्यौ - यावदहं चक्षुषा न पश्यामि तावदेतदुक्त्यैव कथमेतच्छ्रद्दधानि ?, यतो हि स्त्रियो मत्सरत्वादप्यन्यामपवदन्ते, इत्यवधार्य ग्रामान्तरगमनव्याजेन गृहादचलत् । सायंकाले च तापसवेषं धृत्वा सदनमागत्य तस्थौ । रात्रौ च तयोर्दुराचारं स्वैरमाललोके । जाते च प्रभाते तत्स्वरूपं राजानमचकथत् । ततः प्रकुपितो राजा चौरमिव कमठं निगृह्य शिरोमुण्डनादिना विडम्बयित्वा गर्दभोपरि समारोप्य नगरे चतुष्पथादौ भ्रामयित्वा देशानिष्काशयामास । मरुभूतिञ्च तत्पदे नियुक्तवान् । कमठश्च बहुदुःखमनुभूय कस्यचित्तापसस्य पार्श्वे दीक्षां ललौ । द्वादशाब्दीं तपस्थित्वाऽनेकदेशान् भ्रामं भ्रामं पुनः पोतनपुराद्बहिरेकस्य गिरेरुपरि समागत्य तस्थौ । अत्रापि तपस्यन्तमालोक्य बहवः पौरा भोजनवसनादिकमर्प
Jain Education International
( १७९ )
For Private & Personal Use Only
www.jainelibrary.org