________________
( १७८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
sser श्रीवीरमारभ्य जम्बूस्वामिपर्यन्ता त्रैपुरुषीह्यासीत्, वीरस्य कैवल्यासादनानन्तरं चतुर्वर्षेभ्यः परं यो मोक्षमार्गः प्रववृते, साऽन्त्या । ६७ श्रीवीरपित्रादेरायुर्मानम् -
भगवत्पितुः सिद्धार्थभूपस्य सप्ताशीतिवर्षाणि, जनन्यास्त्रिशलायाः पञ्चनवतिः, पाठभेदेन पञ्चाशीतिर्वा । एतदग्रजन्मनो नन्दिवर्धनस्याSष्टनवत्यब्दानि दुहितुः प्रियदर्शनायाः पञ्चनवतिहायनाः । भगवतः स्वसुः सुदर्शनायाः पञ्चनवतिवर्षाणि, पितृव्यस्य सुपार्श्वाभिधस्य नवतिवर्षाणि । भगवत्पितामह - प्रसेनजितश्चाऽष्टानवत्यायुः, ऋषभदत्तो भूसुरश्च शतायुः, देवानन्दा च पञ्चाधिकशतवर्षा । इत्थं प्राच्याऽऽदर्शेधूपलभ्यते ।
3
इति श्रीवीर जिनशासनस्फारशृङ्गारहार- सुविहित सूरिपुरन्दरनन्दनवनाऽऽरामविहारि -शिथिलाऽऽचारप्रचारतमोहारि - जैनाचार्य - भट्टारकश्रीमद्विजय राजेन्द्रसूरीश्वर सङ्कलिताय 'श्रीकल्पसूत्रार्थप्रबोधिनी' नाम्न्यां टीकायां षष्ठं व्याख्यानं समाप्तम् ।
अथ सप्तमं व्याख्यानं प्रारभ्यते ।
Jain Education International
- *5*--
६८ श्रीपार्श्वनाथविभोः पञ्चकल्याणकदर्शनम् -
अथ तस्मिन् काले पुरुषोत्तमः श्रीपार्श्वनाथप्रभुः प्राणतनामके दशमदेवलोके विंशतिसागरोपमायुर्भुक्त्वा ततश्युत्वाऽस्मिञ्जम्बूद्वीपे भरतक्षेत्रे वाराणसीनगरे क्षितिपतेरश्वसेनस्य राज्ञ्या वामाख्याया गर्भे चैत्र कृष्णचतुर्थ्या मध्यरात्रे विशाखर्क्षे चन्द्रयोगे दिव्यं शरीरमाहारञ्च विहाय किलाऽवततार । अस्य हि पञ्चकल्याणकं विशाखायामभूत१ विशाखायां च्युतः, २ विशाखायां जातः, ३ विशाखायां प्रव्रजितः, ४ विशाखायां केवलज्ञानम्, ५ विशाखायामेव निर्वाणम् ।
,
For Private & Personal Use Only
www.jainelibrary.org