________________
षष्ठं व्याख्यानम् ।
(१७७) हस्त्रम्, आर्यिकाश्चन्दनबालायाः षट्त्रिंशत्तहस्रनालन्, शङ्खशतका. दीनां श्रावकाणामुत्कृष्टा सम्पत्तिरेकोनषष्टिसहस्राऽधिकशतताहस्री किलाऽऽसीत् । सुलसारेवतीप्रभृतीनां श्राविकाणां सम्पदा त्रीणि लक्षाण्यष्टादशसहस्राणि चाऽभूत् , तत्र सुलसा नागसार्थवाहपत्नी द्वात्रिंशत्पुत्रप्रसूः, रेवती च प्रभवे बीजोरापाकोषधदात्री बभूव । असवज्ञानामपि सर्वज्ञकल्पानां जिनवत्सदर्थप्ररूपकाणां द्वादशाङ्गीनिर्मातॄणां श्रुतकेवलीनां चतुर्दशपूर्वधारिणानुत्कृष्टा सम्पदा शतत्रयी । आमाँषध्यादिलब्धिमतामवधिज्ञानवतां सम्पत् त्रयोदशशतप्रमाणा बभूव । केवलज्ञानवतां सम्पदा सप्तशती बभूव, आसंश्च वैक्रियलब्धिमन्तोऽदेवा अपि देवर्द्धिविकुर्वणाप्तमाः सप्तशतानि । सार्धद्वयद्वीपेषु द्वयोः समुद्र योश्च स्थितानां संज्ञिपञ्चेन्द्रियाणां पर्याप्तकानां मनोगतभाववेदिनो वि. पुलमतयो मुनयः पञ्चशतमासन् , तत्र विपुलमतिका द्रव्यतः क्षेत्रतः कालतो भावतश्च सार्थव्यङ्गुलाधिकमनुष्यक्षेत्रीयसंज्ञिपञ्चेन्द्रियाणां मा. नसं पदार्थं जानन्ति, अन्ये तु सामान्यतो घटपटादिस्थूलपदार्थमेव विदन्ति । अभूवंश्च चतुःशतानि दैव्यां मानुष्यामासुर्यां समज्यायामजय्या वादिनो मुनयः । शिष्याणां सप्तशती मोक्षमगात्, आर्यिका. णान्तु चतुर्दशशतानि सिद्धिमापुः । अनुत्तरविमानोत्पन्ना नानवीं तनुमापद्य संयम परिपाल्य सिद्धिगन्तारो मुनयोऽष्टौ शतान्यभूवन् । भगवतो वीरस्याऽन्तकृद्भूमिर्द्विधाऽजायत, तत्रैका युगान्तकृदयरा पर्यायान्तकृत् । तत्र युगानि कालमानविशेषास्तानि च क्रमवर्तीनि तत्साध
ाद् ये कमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपास्तत्प्रमाणा युगान्तकृद्भूमिर्जेया। भगवतो हि यत्केवलज्ञानप्रापणसमयः स एव पर्याय उच्यते, एनं समाश्रित्य याऽन्तकृद्भूमिः सा पर्यायान्तकृभूमिर्जातव्या । तत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org