SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ( १७६ ) श्रीकल्पसूत्रार्थ प्रबोधिनी. सत्यं जानीत यदद्यारभ्य चारित्रवतां महानेव क्लेशः संभविष्यति, संयमावनं सर्वथा दुराराध्यमेव भविता, क्षितेर्जीवा कुलत्वात्तद्योग्य क्षेत्राऽसत्वात् । अथाऽसौ भगवान्महावीरो गार्हस्थ्ये त्रिंशदब्दान्, छाद्मस्थ्ये समधिकानि द्वादशवर्षाणि किञ्चिदूनानि त्रिंशद्वर्षाणि केवलिपर्याये, द्विचत्वारिंशदब्दांश्चारित्रपर्याये चैवं द्विसप्ततिवर्षात्मकं सकलमायुः परिपाल्य, वेदनीयायुर्नामगोत्रेषु चतुर्षु भवग्राहिकर्मसु प्रक्षीणेषु अस्यामेवावसपिण्यां दुःषमसुषमानामके चतुर्थारके बहुव्यतिक्रान्ते सति सार्धाष्टमासाधिकवर्षत्रयावशेषे सति मध्यमायां पापापुर्यां हस्तिपालक्षितिपतेर्लेखकसभायामेकाक्येव नहीतरजिनेन्द्रवत्सपरिवारः षष्ठेन मक्तेन निर्जलेन शशाङ्के च स्वात्या सह सङ्गच्छमाने चतुर्घटिकावशिष्टरजन्यां पद्मासनाssसीनः पञ्चपञ्चाशदध्ययनानि कल्याणफलविपाकानि, तावन्ति पापफलविपाकानि, पत्रिंशञ्चाऽपृष्टोत्तराण्यध्ययनानि व्याहृत्य प्रधानमेकं मरुदेवाध्ययनं प्ररूपयन्मोक्षं ययौ । जातिजननमरणजर। दिलक्षणं महाबन्धनं छित्वा सिद्धोऽभवत्, बुद्धो बभूव, सुक्तोऽभून्निःशेषकर्माणि विधूय सर्वदुःखादमुचत् । तदवसरे स्वासनस्पन्दनादिन्द्रादयो भगवतो महावीरस्य निर्वाणकल्याणकं विदित्वा तत्राऽऽगताः । ततश्वमरेन्द्रा गोशीर्षचन्दनैश्चितां रचयाञ्चक्रुः । अग्निकुमाराः सुरा अग्निमक्षिपन्, वायुकुमारा वायुमुत्पाद्य वह्निमुद्दीप्य भगवच्छवमदीदहन्, ततो मेघकुमारा जलमभिवृष्य चिताग्निं निरखापयन् भस्माऽस्थीनि समादाय क्षीरोदधौ चिक्षिपुः । ततो भगवत ऊर्ध्वदंष्ट्राः सौधर्मेन्द्रः, अधस्तनीस्ताश्चमरेन्द्रो गृहीत्वा स्व स्वसभायां रत्नमये करण्डके च निधाय प्रत्यहं पूजयामासतुः । ६६ भगवतः परिवार संख्यानम् अथ भगवतो महावीरस्याऽन्तेसदां गौतमादीनां मानं चतुर्दशस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy