SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ षष्ठं व्याख्यानम् । ( १७५) ग्रहो महाक्रूराकारो द्विसहस्राब्दी यावत् क्लेशयिष्यतितमाम् , इति हेतोः क्षणमप्यायुरेधयत तथासत्ययं महाग्रहो निर्गमिष्यति, भविष्यति च भवतां सन्ततिषु शातमिति शक्रोदितं श्रुत्वा प्रभुरवादीत्-शक्र ! यदूचिवान् भवान् कालत्रयेऽपि पुरा केनापि तन्नाऽकारि एकसमयम. प्यायुर्वधयितुं नार्हामि, तर्हि तदधिकं कथं वर्धयेयम् ?, यदत्रुट्यत्तदेधयितुं कोऽपि नैव प्रभवेत् । भवितव्यं रोद्धमपि कोऽपि नैवेष्टे अतो मच्छिष्याणामेवमेव भाव्यस्ति यावदस्य दुर्घहस्य द्विसहस्राब्दी स्थिति रस्ति । तदनन्तरं निर्यन्थाः साध्व्यश्च भहती महती पूजां लप्स्यन्ते धर्मश्चोदेष्यते। आह्लादिष्यते च चतुर्धा संघः । भाव्यस्य प्रतीकारः केनापि कर्तुं नैव शक्यते, इत्यवधार्य तावान् कालः कथमपि धर्माराधनेन सर्वेर्याप्यतामित्येव प्रान्ते भगवानिन्द्रमुवाच । तस्यामेव रात्रौ तत्र त्रीन्द्रिया अतिसूक्ष्माः कुन्थवो जीवा उदबोभूयन्त, नोद्धियेरन् , न वा समुत्थाप्य पृथक् क्रियेरन् न वा छद्मस्थसाधुभिः साध्वीभिस्तिष्ठन्त्यस्ता दृश्येरन् , केवलं धावमाना एव विलोक्येरन् । याश्च विलोक्य बहभिर्निर्ग्रन्थादिभिर्भक्तपानादिचतुर्विधाहारं प्रत्याख्याय निरशनमकारि । तदा शिष्या अपृच्छन्-प्रभो ! ईदृगुपसर्गः कथमुदपादि ?, प्रभुरुवाच २३, नीलः २४, नीलावभासः २६, रूपी २६, रूपावभासः २७, विकालकः २८, भस्मः २९, भस्मराशिः ३०, तिलः ३१, तिलपुष्प; ३२, दकः ३३, दकवर्णः ३४, कार्यः ३५, बन्ध्यः ३६, इन्द्राग्निः ३७, धूमकेतुः ३८, हरिः ३९, पिङ्गलः ४०, बुधः ४१, शुक्रः ४२, बृहस्पति: ४३, राहुः ४४, अगस्तिः ४५, माणवकः ४६, कामस्पर्शः ४७, धुरः ४८, प्रमुखः ४९, विकटः ५०, विसन्धिकल्प: ५१, प्रकल्पः ५२, जटाभः ५३, अरुणः ५४, अग्निः ५५, कालः ५६, महाकालः ५७, स्वस्तिकः ५८, सौवस्तिकः ५९, वर्धमानः ६०, प्रलम्बः ६१, नित्यालोकः ६२, नित्योद्योतः ६३, स्वयंप्रभः ६४, अवभासः, ६५, श्रेयस्करः ६६, क्षेमङ्करः ६७, आभङ्करः ६८, प्रभङ्करः ६९, अरजाः ७०, विरजाः ७१, अशोकः ७२, वीतशोकः ७३, विततः ७४, विवस्मः ७५, विशालः ७६, शालः ७७, सुव्रत: ७८, अनिवृतिः ७९, एकजटी ८०, द्विजटी ८१, करः ८२, करकः ८३, राजा ८४, अर्गलः ८५, पुष्पः ८६, भावः ८७, केतुः ८८ इत्यष्टाशीतिमहाग्रहाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy