SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ (१७४) श्रीकल्पसूत्रार्थप्रबोधिनी. स्रायां काशिदेशीया नवमल्लकीजातीयाः कोशलदेशीया नवलिच्छवीजातीया राज्ञश्टकस्य भगवन्मातुलस्य सामन्ता अष्टादशराजा भगवद्वन्दनायै तत्राऽऽययुः। ते सकलास्तस्मिन्नमावास्यादिवसे पौषधोपवासं कुर्वाणास्तत्रोपविष्टा आसन् । ते भगवतो निर्वाणात्कैवल्यलक्षणभावोद्योते याते द्रव्योद्योतोऽस्माभिः कर्त्तव्य इति धिया दीपमाला अकुर्वन् । अतएव हेतोः प्रत्यब्दं तस्याममावस्यायां दीपमालोत्सवं लोकाः प्रकुर्वन्ति, यदस्यामेव भगवानक्षय्यं सुखमाप्तवानत एषा तिथिः कार्तिककृष्णपक्षीया सर्वेषां श्रेयस्करी मङ्गलमयी महापर्वरूपा जज्ञे । कार्तिक शुक्लप्रतिपदि च गोतमस्य केवलज्ञानमुत्पन्नं तत्रापि शक्रादिदेवैमहामहश्चके । अतएव लोके तदिने गवादीनां क्रीडनं प्रावर्त्तत । अस्यामेव तिथ्यां नन्दिवर्धनो भगवतो ज्येष्ठबन्धुर्वीरनिर्वाणं निशम्य शो शोचाञ्चकार । तच्छोकापनोदनाय तद्भगिनी सुदर्शनाभिधाना शोकाकुलं नन्दिवर्धनमामन्त्र्य, निजवेश्मनि सम्भोज्य विशोकमकरोत् , तत्प्रभृति लोके सा भ्रातृद्वितीयेति नाम्ना ख्यातिमागात् । ६५ भगवच्छवस्य सुरेन्द्रकृताग्निसंस्कार: अथ तस्यामेव निशायामष्टाशीतिमहाग्रहाणां क्षुद्रः क्रूरतरस्त्रिंशत्तमो भस्मराशिनामा महाग्रह एकः द्विसहस्राब्दस्थितिकः श्रमणस्य भगवतो वीरस्य जन्मर्वोत्तरफल्गुन्यामागात् । अमुष्मिन्महाग्रहे भगवज्जन्मनक्षत्रं संक्रान्ते निर्ग्रन्थानां श्रमणानां साध्वीनाञ्चोत्तरोत्तरं वन्दनादिसत्कारो नो वर्धिष्यते, ततएव कारणाच्छको भगवन्तमित्थं व्यजिज्ञपत-प्रभो ! भवन्तो मोक्षं व्रजन्ति, इतश्च तव सन्ततीरयं भस्मराशि (१) अङ्गारकः १, लोहिताक्षः २, शनैश्चरः ३, आधुनिकः ४, प्राधुनिकः ५, कणः ६, कणकः ७, कणकणकः ८, कणवितानकः ९, कणसन्तानकः १०, सोमः ११, सहितः १२, आश्वासनः १३, कायोपगः १४, कर्बुरकः १५, अजकरकः १६, दुन्दुभकः १७, शङ्खः १८, शङ्खनाभः १९, शङ्खवर्णाभः २०, कंसः २१, कंसनाभः २२, कंसवर्णाभः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy