________________
षष्ठं व्याख्यानम् ।
( १७३) त्वन्तु सर्ववित्सर्वदशी तथापि तत्काले मां पृथगकरोः । किमु मामकी त्वयि प्रीतिं कृत्रिमामवेदीः ?, किमु तवाऽहमसुखकरोऽभूवम् ?, को वा हेतुः यन्मां व्यस्मार्षीः । प्रभो ! त्वां विना को मे दुःखं भक्ष्यति ?, त्वामेकं विना समवसरणस्यापि सुषमा व्यलीयत । विभो ! विना वारि मीन इव त्वां विना चतुर्धाऽसौ सङ्घः शोच्यतां ब्रजिष्यति । इत्थं शोशुच्यमानस्य गौतमस्य वीर वीर इति जपतो वी इति मुख एवाऽतिष्ठत् । ततो गौतमेन ज्ञातम्-यद्वीतरागा हि प्रकृत्यैव नीरागा जायन्तेऽतोत्र ममैव दोषः । नूनं मौर्यमेवाऽकरवम्-यत्पुरैव मया श्रुतोपयोगो नाऽदायि । अतो ममैकपाक्षिकं स्नेहं धिगस्तु । अहो ! मोहस्य महिमा बलीयानस्ति यो मादृशामपि पीडामीदृशीमकरोत् , स हि परेषां कियती पीडां कुर्यात् । अहो ! मोहवशान्मया पुरैतन्न विमृष्टं यदसौ वीतरागो गतस्नेही वर्त्तते, अमुष्मिन् कृतोऽपि रागः प्रान्ते क्लेशमेव विधास्यति । अलमिदानीमियताऽनुतापेन, रे जीव ! त्वं कोऽसि ?, प्रभुर्वीरः कोऽस्ति ?, उभयोरन्तरं नास्ति, परमार्थे त्वैक्यमेवास्ति यस्मादयमात्मा ज्ञानदर्शनचारित्रमयः शाश्वत एक एवास्ति, अन्यसर्वमनित्यमेवास्ति । जगति कस्यापि कोऽपि नैवास्ति, इति स. मतां भावयतो गौतमस्य केवलज्ञानमुत्पेदे । प्रभाते च शकादयस्तदर्थं महामहं विदधिरे । अत्रैवमाचक्षते कवयः-गौतमस्याऽहङ्कतिः खल्ल प्रतिबोधकरी, रागश्च गुरुभक्तिकरः, विषादः कैवल्योत्पादकरोऽभूदित्यद्भुतम् । अयं सुधर्मस्वामिनं चिरायुषं विदित्वा प्रभोः पट्टे न्यवी. विशत् । ततो द्वादशाब्दान् कैवल्यपर्यायं परिपाल्य जन्मतो द्वानवत्यब्दायुरुपभुज्य मोक्षमगमत् । गौतमस्वामी यान् यान् निजपाणिनाऽदीक्षयत् , ते सर्वे तस्मिन्नेव भवे मोक्षमापुः । ६४ दीपमालिकापर्वोत्पत्तिः
अथ यस्यां रजन्यां भगवान्महावीरो मोक्षमाप तस्यामेव तमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org