________________
(१७२)
श्रीकल्पसूत्रार्थप्रबोधिनी. योगमुपागते, भगवान्महावीरो मोक्षमुपागतवान् । तत्र निशायां स्वर्गाद्देवानामवतरणेन कियताञ्च देवानामूर्ध्वगमनेन महानुद्योत आसीत् , तथा देवदेवीनां गमागमाभ्यां महानप्याकाशः सङ्कीर्णतामापत्, अबोभूवीच्च तेषामव्यक्तनादेन मुखरितप्रायः।। ६३ निर्वृते भगवति गौतमस्य शोकः, केवलोत्पत्तिश्च___ तस्यामेव रजन्यामनगारस्य गौतमस्य भगवदनुरागपाशे विच्छिन्ने कैवल्यमुत्पेदे । तदित्थम्-स्वस्यान्तिम समयं जानानो भगवान्महावीरस्तदिने मयि गौतमस्य गाढोऽनुरागो निवर्त्ततामुत्पद्यताञ्च समु. ज्ज्वलं कैवल्यम् , इति हेतुना देवशर्माणं प्रतिबोधयितुं तदासन्नग्रामे गौतमं प्राहिणोत् । सोऽपि तत्र गत्वा तं प्रतिबोध्य रात्रौ तत्रैवाऽतिष्ठत् । प्रभाते च ततो निवर्तमानः पथि कियतो देवाञ्छून्यचित्तानालोक्याऽवधिना च वीरनिर्वाणं ज्ञात्वा क्षणं वज्राहत इव मूर्छामापत् । ततः कथञ्चिच्चैतन्यमापद्य मोहादेवं विललाप-भगवन् ! त्रिभुवनभासनभास्करे त्वयि निर्वाणमुपगते कामं प्रसरतु नाम जगत्यामेतस्यां मिथ्यात्वतमःस्तोमः । गर्जन्तु च कुतीर्थिघूका अभयाः। दुर्भिक्ष-दुर्व्यसन-दुर्मति-द्वेषादिका राक्षसाः परितः श्लिष्यन्तु लोकान् । नाथ ! त्वया विना नूनमिदं जगदाहुणा ग्रस्ते निशीथिनीपतौ व्योममण्डलमित्र, वायुनाऽपहृते दीपे भवनमिव हतशोभमजायत । हन्त ! कमहं क्रमयुगलपीठे प्रणिपतन् , पाप्रच्छिष्यामि संशयान् को वा मां गौतमगौतमेति नामग्राहं मधुरया गिराऽऽकारयिता। हा!!! वीर ! ! किमकारि सर्ववेदिना वया?, यन्मामीदृशेऽवसरेऽत्याक्षीः । दयासिन्धो ! मया किमपराद्धम् ?, किं बालवत्तव वसनाञ्चलमग्रहीष्यम् ?, अथवा कैवल्यस्य किञ्चिदंशममार्गयिष्यम् ?, किमु मोक्षमार्गे सङ्कीर्णताऽभविष्यत् ?, वा कश्चित्ते भारोऽभविष्यत् ? यन्मां प्रतार्य यातोऽसि ? । प्रभो ! छद्मस्था अपि प्रान्तसमये पुत्रशिष्यमित्रादिकं दूरादप्याहृय पार्श्वे स्थापयन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org