________________
षष्ठे व्याख्यानम् ।
तृपत् । स्वयमपि पारणमकरोत् । तदवसरे एकोत्तरपञ्चशतशिष्याणामश्नतां गौतमीयगुणगणचिन्तनात्केवलज्ञानमुदपादि, एकोत्तरपञ्चशतानां प्रभोः समवसरणदर्शनात्तत्क्षणमेव केवलज्ञानमुदपद्यत, अवशिष्टैकोत्तरपञ्चशतानान्तु श्रीवीरमुखाऽवलोकनात्तदुत्पेदे । इत्थं सर्वे ते केवलिनो बभूवुः, ततस्ते वीरजिनमभिवन्द्य केवलिनां परिषदि गन्तुमलगत् । तदा गौतमस्तानवादीत् - भोः ! यूयं छद्मस्था, अतः केवलिनां संसदि नोपाविशत | इति गौतमोक्तं निशम्य प्रभुरुवाच - गौतम ! त्वमेतान् केवलिनः कथमवजानासि ? सकला अप्येते कैवल्यमापेदिरे । गौतमो मनसि विषसाद देते मामकाः शिष्याः केवलिनो जज्ञिरे ममाद्यावधिनोत्पन्नम् इति विषीदन्तं गौतमं भगवाञ्जगौ — मा खिद्यस्व, अन्ते चावयोरेकैव स्थाने शाश्वती स्थितिर्भविष्यतीति विद्धि ।
"
६२ भगवतश्चतुर्माससंख्यानं, मोक्षगमनञ्च -
अथ भगवान्महावीरजिनो यत्र यत्र प्रावृट्कालिकीञ्चतुर्मासीमकरोत्, तेषां नामान्येवम्-अस्थिग्रामे १, चम्पापृष्ठचम्पयोः ३, विशालान्तिकवाणिज्यग्रामे १२, राजगृहासन्ननालिन्दाख्यपाटके ( शाखानगरे ) १४, मिथिलायां ६, भद्रिकायाम् २, आलम्भिकायाम् १, श्रावस्त्याम् १, वज्रभूम्याख्यानार्यदेशे प्रणीतभूमौ १, मध्यमाऽपापायाम् १ तत्र हस्तिपालस्य राज्ञो लेखक ( कारकून ) शालायां महावीरविभुरन्तिमं चतुमसकं प्रावृषेण्यं न्यवसत् । सा नगरी प्रागपापा इति ख्यातिमभजत, भगवतो निर्वाणाद्देवा पापा इति जगदुः । अथ कार्त्तिक कृष्णाऽमावास्यायां रात्रौ प्रच्छिन्नजन्मजरामरणकारणकर्मकः, सिद्धो, बुद्धो, भवग्राहिकर्ममुक्तः, सकलदुःखान्तकृत्सर्वदुःखविनिर्मुक्तश्चन्द्रनाम्निवत्सरे, श्री. तिवर्धने मासे, नन्दिवर्द्धन पक्षे, अग्निवेश्यदिव से - उपशमाऽपरनामके, देवानन्दानाम्न्यां रजन्यामर्चाख्ये लवे, मुहूर्त्तनाम्नि प्राणे, सिद्धाख्यस्तोके, नागाख्ये तृतीये करणे, सर्वार्थसिद्धमुहूर्त्ते, स्वातीनक्षत्रे, चन्द्र
Jain Education International
( १७१ )
For Private & Personal Use Only
www.jainelibrary.org