________________
( १७०)
श्रीकल्पसूत्रार्थप्रबोधिनी. ब्धिकश्चतुर्दशपूर्वधरश्चतुर्ज्ञानधरः श्रुतकेवली बभूव । अमुष्य हस्तेन ये ये दीक्षितास्तेषां सर्वेषां केवलज्ञानमुदपद्यत, स्वयन्तु भगवति वीरे दृढरागित्वात्तन्नाप्नोत् । अतएव महतीं चिन्तामकरोत्-यन्मे समुत्पत्स्यते केवलज्ञानं न वेति । तस्येदृशीं मानसीं चिन्तामवगत्य प्रभुर्देशनां ददान एवमवादीत्-यो हि स्वलब्धियोगादष्टापदगिरिशिखरोपरि चटित्वा, जिनेन्द्रचतुर्विंशतिमभिवन्देत स हि तस्मिन्नेव भवे मोक्षमधिगच्छेत् इति श्रुत्वा पृथ्वीतलाद् द्वात्रिंशत्क्रोशोच्चमष्टापदमहीधरशिखरं सूर्यकिरणालम्बनेन गौतमो लब्ध्या चटितवान् । तत्र चतुर्विंशतिजिनान्नत्वा ' जगच्चिन्तामणि' स्तवनेन तत्कालरचितेन स्तुत्वा, श्रीवज्रस्वामिजीवं तिर्यग्जृम्भकाख्यं सामानिकदेवं पुण्डरीकाध्ययनेन प्रतिबोध्य नीचैरवातरत् । तत्र व्यधिकपञ्चदशशततापसाश्चतुर्थषष्ठाऽष्टमादितपांसि कन्दमूलफलादिना पारयन्त एकं वर्ष व्यत्यैषुः। त उपरिष्टादधस्तादवतरन्तं गौतममालोकमाना मनसि दध्युः-चेद्वयमेतस्य शिष्यतां नयेम तर्हि सुखेनाष्टापदशिखरमारुह्य देववन्दनं कुर्याम, इति निश्चित्य श्रीगीतमस्य चरणयोः सर्वे निपेतुः । गौतमोऽपि तानशेषान् योग्यान् विदित्वा, प्रतिबोध्य दीक्षां ददौ । ततस्तानशेषानात्मलब्ध्याऽष्टापदोपरि नीत्वा देवाभिवन्दनं कारयित्वा पुनस्तत्रैवाऽऽनीय तानवोचत-यूयं पारणं चिकीर्षथ ? तेऽजल्पन्-स्वामिन् ! अस्ति नस्तादृशीच्छा । ततो गौतमः कुतश्चित् सपादशेटकमितं पायसमेकस्मिन् पात्रे लात्वा तानुवाचभोः ! सत्वरमुत्तिष्ठत, पारणं कुरुत । तदा स्तोकं तदालोक्य सर्वे चिन्तितुं लग्नाः-अहो ! ! ! एकस्याऽप्यपर्याप्तेनेयता पायसेन किमेष नः सर्वेषां नयनयोरञ्जनं विधिसति ? भाले तिलकं वा चिकीर्षति ? गौतमेन पुनरुक्तं-भोः ! तूर्णमागम्यतां, भुज्यतां त्वरया । ततस्ते सर्वे समागत्य पङ्क्तिशः समासत । ततस्तेषां मनःशङ्कानिवृत्यर्थं पात्रमगुष्ठेन स्पृष्ट्वाऽक्षीणलब्ध्या तदक्षयं कृत्वा सर्वांस्तावतैव पायसेन सोऽती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org