________________
षष्ठं व्याख्यानम् ।
(१६६) अतिहप्ता अग्निभूत्यादयः सर्वे क्रमेण विवदितुमागता भगवता च ते सकला अपि निःसंशयीकृत्य दीक्षिताश्चतुश्चत्वारिंशच्छिष्यवगैः सार्धन् , चक्रिरे च गणधराः । तेभ्यो गणधरेभ्यः प्रथमं ' उप्पण्गेइ वा ' उत्पद्यते जीवः पदमेकं भगवानदात् , तदवधार्य शङ्काऽजायत-यदेतेषां समेषां जगति समावेशः कथम्भवतीति द्वितीयं पदमदित ' विगमेइ वा' उत्पद्य विनश्यति, पुनः शशङ्किरे-विनश्यन्ति चेजगतः शून्यता स्यादिति तृतीयं पदमदददिष्ट 'धुवेइ वा ' ध्रुवमिदं जगदस्ति, एतेन ते विदाञ्चकुर्यदत्र कियन्तो जायन्ते, कियन्तश्च नियन्ते तदपि जगदिदं शून्यत्वं नोपैति, भवति च त्रैकालिकसत्तावत् । इत्थं त्रिपदीमापद्य मूहुर्तेनैव द्वादशाङ्गी रचयाञ्चकुस्ते गणधराः । तदक्सरे शक्रः स्वयं रत्नमयस्थाले दिव्यं वासक्षेपं निधाय भगवतः पार्श्वे समाययौ । ततः प्रभूरत्नमयसिंहासनादुत्थाय तच्चूर्ण मुष्टिमादाय गौतमप्रमुखेष्वेकादशसु गणधरेषु किञ्चिदवनतेषु तिष्ठत्सु शक्रादिदेवेन्द्रेषु गीतनृत्यवाद्यादिकं निवार्य, मौनमाश्रित्य शृण्वत्सु प्रथमं गौतमस्य द्रव्यगुणपर्यायैस्तीर्थमनुजानामीति भणित्वा तन्मूर्धनि दिव्यं वासं क्षिवा, परेषामपि मूर्धसु क्रमशो वासमक्षिपत्, ततो देवेन्द्रादयोऽपि तेषामुपरि वासचूर्ण गन्धपुष्पाणि ववृषुः । अस्मिन्नवसरे भगवद्देशनां श्रावं श्रावं प्रतिबुद्धा सा चन्दनबाला महता महेन भगवत्पार्श्वे दीक्षिता जाता । तत्पश्चाबहवः पुमांसः स्त्रियश्च दीक्षामादिषत । बभूवुश्च बढ्यः श्राविकाः श्रावकाश्च भूयांसः । इत्थं द्वितीये समवसरणे भगवान्महावीरश्चतुर्धात्मकं श्रीसंघमतिष्ठिपत् । ६१ गौतमस्याष्टापदोपरिगमनं, तापसानां दीक्षणश्च__ अथ गौतमस्वामी रूपे संस्थानादौ च बहूत्कृष्ट आसीत् । अयंहि षष्ठाऽष्टमादिविविधतपांसि विदधत् संप्राप्ततेजोलेश्याद्यष्टाविंशतिल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org