________________
( १६८)
श्रीकल्पसूत्रार्थप्रबोधिनी. वयन्ति । इत्थं चिन्तयन्तं तमिन्द्रभूतिं भगवानेवमाकारयत्-गौतम ! सुखेन समायातोऽसि ? इति गोत्रोल्लेखपूर्वमाह्वानं प्रभुणा कृतं निशम्य भनस्यचिन्तयत्-यदसौ मामके नामगोत्रे कथमवेदीत् ?, ना.सौ प्राङ्मिलितो मया कदापि । अथवा जगति प्रख्याशिमन्मामकं नाम को वा नो जानाति ? यदहं केनापि काप्यज्ञातो नास्मि किन्तु सूर्यांशुवत्त र्वत्र प्रथितोऽस्मि । परमित्थमाह्वानमपि मां प्रतारयितुमेवाऽकारि, नास्म्यहं तथा ज्ञानविकलो येन केवलं मधुरवचसैव तत्पारवश्यं व्रजेयम् । चेदसौ मे मानतं संशयं विद्यान्निराकुर्याच्च तदैव तं सर्वशं वेदिष्यामि प्रसत्स्यामि च, वैपरीत्ये तु विवदिष्याम्येव । विदितुमशक्नुवन्माननु कूलयितुं सुमधुरया गिरा खल्वयमभाषिष्ट, यदसौ या साई वादं न कुर्यात् , परमहन्तु करिष्याम्येव वादन् । अथ विवदितुमुत्सुकमिन्द्रभू तिमुदीक्ष्य प्रभुर्मथ्यमानक्षीरसागरीयं वा वैधात्रं या पयोवाहीयं ध्वनिमनुकुर्वता नादेनैरमाख्यत्-भोरिन्द्रभृते ! “ विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवाऽनुविनश्यति, न प्रेत्य संज्ञाऽस्तीति" त्वमेवमेतदृगथं जानासि-यद् विज्ञानघनो गमनाऽऽगमनादिक्रियावानयमात्मा पृथ्व्यप्तेजोवारयाकाकाशेभ्यो भूतेभ्यः समुत्थाय प्रादुर्भूय ता. न्येव पञ्चभूतान्येवानुपश्चाद्विनश्यति, तेष्वेव विलयं प्रयाति जले बुद्धुदवत् । अतएव पञ्चभूतातिरिक्तः कोऽप्यात्मा नैवास्ति यो लोका तरं प्रेत्य मृत्वा गच्छेत् । अतो विज्ञानशब्दस्य स्वदभिमतोऽर्थो नास्ति किन्तु विज्ञानं ज्ञानदर्शनोपयोगस्तन्मयत्वा जीवोऽसौ विज्ञानघनतामञ्चति । अयमात्मा पञ्चभूताऽतिरिक्तः प्रेत्य च लोकान्तरं याति भुकते चाऽवश्यं कृतशुभाऽशुभकर्मफलानि, अतएव जातमात्रस्यापि बालस्य स्तन्यपाने प्रवृत्तिः सङ्गच्छते । किञ्चायमात्मा ज्ञानमयोऽकोपनो धर्माऽधर्माश्रयः' इत्यादि शतश आगमा जीवस्य भूतातिरिक्तत्वं प्रतिपादयन्ति । इत्थं भगवद्वचसा विच्छिन्नसंशयः प्रवबाजेन्द्रभूतिः । तदनु वादिप्रकाण्डा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org