________________
षष्ठं व्याख्यानम् ।
( १६७ ) टता बहुविवदिषून् विजयमानेन मया कोऽपीदृशो वादी नाऽदर्शि क्वाप्यशेषे महीतले । किं ब्रह्मा ? न हि स हि चतुर्मुखः सावित्री सहचरी बिभर्ति कमण्डपाणिहँसेन च याति । नापि मुरारिः श्रिया विरहितत्वाच्छङ्खचक्रगदापद्मवनमालाद्युपकरणरहितत्वाञ्च । कस्तर्हिकला. धरः ? सोऽपि न संभवति, तस्य हिपाक्षिकं क्षैण्यं पाक्षिकश्चौन्नत्यं तत्रापि लाञ्छनं वर्ति, अयन्तु सदोन्नतः परिपूर्णकलः प्रेक्ष्यते । सहस्रांशुरपि न ? यतोह्ययं ततोऽप्यधिकां दीप्तिं बिभ्राणोऽपि शीतलतमोऽस्ति । द्विलोचनत्वादिन्द्रोऽपि न भवितुमर्हति । नायमुदयगिरिः स हि निसर्गकाठिन्यं भरते, एतस्मिँस्तु मार्दवं दरीदृश्यते । अतो नूनममुना समस्तसद्गुणशालिना सर्वातिशायिना सकललोकबन्धुना सर्वपापापहारिणा षट्कायिकजीवपालिना जगच्छिवकारिणाऽनाथनाथेनाऽ शरणशरणेन वर्द्धमाननाम्ना शोश्रूयमाणेन सर्वज्ञेन तीर्थङ्करेण भवितव्यम् । नानीदृशः कोऽप्यपरो भास्कराऽधिकतेजिष्ठश्चन्द्रादप्यधिकसौम्यः, सागरादप्यतिशयगम्भीरः, पृथ्व्या अप्यधिकः क्षमी, जगत्रये सम्भवति। नूनमेष मारविजित्वरीं तनुश्रियं वहमानः स्वीयप्रातिहार्यातिशयादिगुणगणाधारभूतस्तीर्थप्रवर्त्तनाय प्रवर्त्तमानो देवाधिदेवो श्रीमहावीरजिनवरो भगवानेवास्ति । हन्त ! नूनमकारि मया भौय॑म् , यदनन सर्वज्ञेन सुरासुरैरप्यजय्यन सत्रा प्रतिपक्षितामवहम् । उपतस्थे च सम्प्रति मे व्याघ्रदुस्तटी न्यायः । को वोपायः सकलभूतलव्याप्तात्मप्रतिष्ठापालनाय खल्वालम्बनीयः। मृगेन्द्राऽग्रे शृगालस्येवाऽमुष्याऽने मम कियती शक्तिः ? को नाम धीरोऽस्ति यः सर्वज्ञेनाऽमुना सत्रा वादं कर्तुं समर्थों भवेत् । अत्रान्तरेऽन्यदप्यदृष्टपूर्वं महाश्चर्यकरं भगवतो माहात्म्यं सोऽपश्यत्-एकतः शाश्वतमपि वैरं विमुच्य मृगी सिंहीसुतं स्पृशति, अन्यतः गौाघीपोतं वात्सल्यधिया मृशति, मार्जारी हंसीसूनुम् , मयूरी भोगिनमेवं यस्य गिरा पशवोऽपि त्यक्तविरोधा मिथी मैत्री भा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org