SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) श्रीकल्पसूत्रार्थप्रबोधिनी. तर्हि निःशेषमहीतलप्रसूतं जगज्जयोद्भूतं प्रभूतमतिविशदं सुयशोऽपि मे प्रणशिष्यत्येव । अतो मयाऽसौ वादं कृत्वा निर्जित्य क्षिप्रं गतगर्वः करणीय एव, इत्यवधार्य कृतद्वादशाङ्गतिलकः सौवर्ण यज्ञोपवीतं बिभ्राणः पीताम्बरवसनः कियद्भिः पुस्तककरैः कैश्चिद्धृतपाणिकमण्डलुभिः कियद्भिः कुशहस्तैः पञ्चशतान्तेवासिभिः-सरस्वतीकण्ठाभरण !, वादिविजयलक्ष्मीशरण !, वादिमदगञ्जन !, वादिमुखभञ्जन !, वादिगजसिंह !, विज्ञाताऽशेषपुराण !, वादिकदलीकृपाग !, कुमतध्वान्तनभोमणे !, विजितवादिवृन्द !, वादिगरुडगोविन्द !, वादीन्द्रकुम्भमुद्गर !, वादि कदिवाकर !, वादिजलधिघटप्रभव !, वादिगोधूमघरट्ट !, वादिकन्दकुद्दाल !, वादिमहीरुहकरीन्द्र !, षड्भाषावल्लीमूल !, परवादिमस्तकशूल !, वादिशिरः फाल !, सरस्वतीभाण्डागार !, चतुर्दशविद्यालङ्कार !, वादियुद्धमल्ल !, ज्ञानरत्नाकर !, वादिहृदयशल्य !, विकटधीधनाऽग्रेसर !, बहुराजसमाजमुकुट !, महाकाव्यरचनाकर !, विजिताऽ. नेकवाद !, वादिकंसमुरारे !, इत्यादिबिरुदावलीगानेन दिङ्मण्डलं मुखरी कुर्वद्भिरन्वीयमानः स वीरं प्रति चचाल । मार्गे च गच्छन्नेवं चिन्तयति-ध्रुवममुना मौर्यमकारि, यन्मुधा सर्वज्ञाटोपेन मामचुक्रुधत् । तन्मन्ये ! दीपे पिपतिषुः पतङ्गवदयमपि मुमूर्षाञ्चकार, इदानीमेव तत्फलं दर्शयिष्यामि; इत्थं विमृशन्नागत्य समवसरणस्य प्रथमं सोपानमारोह । तत्र स्थित्वा गढत्रयात्मकमलौकिकं समवसरणं दर्श दर्श नितरां विसिष्मिये । तत्राऽऽयं राजतं सौवर्णगोशीः सर्वतः सुशोभितं, द्वितीयं हेममयं रत्नमयानि गोशीर्षाणि, तृतीयं रत्नमयं मणिमयानि गोशीर्षाणि बिभ्रद्देदीपीति । विलसन्ति च चत्वारि द्वाराणि सतोरणान्येतत्समवसरणं योजनमात्रं भवति । मध्ये चाशोकतरू राजति, तदधस्तादुपरिच्छत्रत्रयविभूषितं स्वर्णसिंहासनं स्थापितमस्ति । तत्र निषण्णं भगवन्तं महावीरं विलोक्याऽचिन्तयदिन्द्रभूतिः-अहो ! बहुदेशान् पर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy