SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ षष्ठं व्याख्यानम् । ( १६५) तत्र मामायान्तं विलोक्य नूनमेव पलायनं मौनं वा भक्ष्यति । यतःखद्योतश्चन्द्रमा वा तावदेव व्योम्नि प्रकाशते यावत् सहस्रांशुनॊदयते । योऽग्निर्भूधराननेकान् भस्मसादकरोत् , तस्याग्नेः पुरस्तातरोः कियती शक्तिः ?। अथवा यत्र नद्यां महादन्तिनो निमग्ना अभूवस्तस्यां कीटादीनां का गणना ? तथैव येन मया निर्जिता गौडा देशान्तरमशिश्रि यन् , सदसि पराजिता गुर्जरीयाः कोविदा अद्यापि मद्भीत्या तात्रस्यन्ते, मरीमराञ्चक्रुश्च पण्डितसमज्यायां नियुक्तीकृता मालवीयाः प्रज्ञावन्तः, तैलगाँश्च विद्वत्तमानकरवं पराजितान् गतगर्वान् , अनीनशश्च लाटीयान् विपश्चिद्वरान् , अधिसभं दक्षतरैर्द्राविडैरपि महीयसी ब्रीडामनीनयम् । एवं प्रतिदेशं ग्रामं ग्रामं वादिभैक्षं कामयमानः सर्वत्र तद्दौर्लभ्यमेव व्यलोकि । ईदृशस्य ममाऽग्रे कोऽयं विवदनानः सर्वज्ञत्वाभिमानं प्रका. शयते ? तमहं पश्येयम् । ___ गन्तुमनसं तमिन्द्रभूति तदनुजोऽग्निभूतिाजहार-बान्धव ! तमैन्द्रजालिकप्रायं कीटकल्पं वादिनं विजेतुं किं जिगमिषसि, जित्वापितं का प्रतिष्ठां लप्स्यसे ? अतस्त्वं मागाः, मामेव प्रेषय, अहलेक एव तत्र गत्वा तूर्णं विजित्यागमिष्यामि । को नाम विद्वान् कमलोत्पाटनाय देवद्विपेन्द्रं प्रहिणुयात् ? इत्याकर्ण्य न्यगददिन्द्रभूतिः, त्वदुक्तिः साधीयसी किलौचित्यं वहति । यद्यपि मदीयशिष्य एव तं विजेतुं पर्याप्तो वर्त्तते, तथापि वादिनो नाम श्रावं भावं मन एव मामतितरां त्वरयति । नूनमेष मे तथा जज्ञे यथा पीलयतस्तिलान् कोऽप्येकतिलो हीयते, पच्यमानानां मुद्गानां मध्ये यथैको छुट्यते, भुञ्जानस्य जनस्य मुखादेकः कणः पतति; तथैव सफलं महीतलं विजयमानस्य ममाप्यसौ सर्वज्ञाभासः क्वाप्यवशिष्टः । साम्प्रतमभिमुखमायातो जगज्जयिष्णुना प्रभविष्णुना मया कथं सह्येत ? यावदसौ मया नो जयिष्यते तावत्स्वस्मिञ्जगज्जयिष्णुतामपि नैव मन्ये । अतएवाधुना खल्वेनं नो जेष्यामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy