SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (१६४) श्रीकल्पसूत्रार्थप्रबोधिनी. पयिषति १ सम्भावयामि चैनं महाधूर्त्तम् । धृत्तॊ हि मतिविकलाजनानेव वश्चयते, अयन्तु विपुलमतिकान् देवानपि गर्धयते । यथा काका. स्तीर्थोदकं विहायाऽपूतं जलं पिपासन्ति, मक्षिकाः सुरभिचन्दनं हित्वा दुर्गन्धिं सिषेविषन्ते, उष्ट्राः सत्तरून् विवर्य कण्टकिनस्तरून् बुभुक्षन्ते, कोला वा परमान्नं त्यक्त्वा व! जिघत्सन्ति, कौशिका वा सूर्यालोकं त्यक्त्वा तमसा पेप्रीयन्ते, तथैते भ्रान्ततमा देवा अपि मां सर्वज्ञ यज्ञं वा विमुच्य तस्य धूर्ततमस्यान्तिकं वबजुः । परन्तु मादृशे सर्वज्ञे पश्यति सति यदसौ सर्वज्ञतां प्रथयँल्लोकान् प्रतारयति तदहं कथं सहेयम् ? किञ्च, महीयसां सैव नैसर्गिकी प्रकृतिर्भवति, यया धुर्ततमानीदृशाञ्जनान्मूढानञ्जसा शिक्षयन्त्येव । ईदृशानामीदृशालीकसर्वज्ञता. गर्वापघातमपि मत्तोऽन्यः कोऽपि नैव करिष्यति, अत एवाचिरादहमेव तदीयमशेषं गर्व भज्यां तद्देव समीहितं मे सेत्स्यति । यथा खलु गगने द्वौ सूर्यो नोदितः, गुहायामेकस्यामुभौ मृगेन्द्रौ न निवसतः, एकस्मिन् कोशे युगपत्कृपाणद्वयी न प्रवेष्टुमर्हति; तथैव सर्वज्ञस्य ममाऽग्रे सो. ऽपि सर्वज्ञीभूय नैव स्थातुमर्हत्यत्र । स हि वैदेशिकः केवलमैन्द्रजालिकीमेव विद्यां जानानः पूजां लिप्सति, छलयति च मूर्खाञ्जनान् । अहन्तु सर्वासु विद्यासु नैपुण्यमधिगतोऽस्मि । एवं मनसि यावद्विमृशति तावद्भगवन्तमभिवन्द्य परावर्त्तमानान् कियतः सुरानालोक्य पृष्टवानिन्द्रभूतिः-भवन्तो यदन्तिकं गतवन्तः, तस्मिन् कीदृशी सर्वज्ञता वरीवत्यते ? देवाः समूचिरे–रे ! तदीयां सर्वज्ञतां सहस्रमुखैरपि वक्तुमशक्यामेव विद्धि । परमेतन्नो महदाश्चर्यं भाति यद्भवान् स्वं सर्वशं मन्वानोऽपि नो वेत्ति, यन्नः परीपृच्छयसे स कीदृशोऽस्ति । स हि सर्वेषां मानसं भावं त्रैकालिकं याथातथ्यन किलाचष्टे । त्वन्त्वेतावदपि नो जानासि, तर्हि सूर्येण सह खद्योत इव तेन सह मुधा स्पर्धमानः कथं नो तात्रपीषि ?। एतच्छ्रुत्वा स निरचिनोत्-नूनमेष कोऽपि मायिकोऽस्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy