________________
षष्ठं व्याख्यानम् ।
(१६३) धनपतिप्रभृतयः । जोसीत्युपनामकाः खिमायत, भीमायत, रामायत, प्रभायित, सोमायित, धनायित, कर्मायित, धर्मायित, देवायित, सूरायित, गुणायितेत्यादयः । पण्डिताः नागार्जुन, गोवर्द्धन, गुणवर्द्धन, विष्णु, मुकुन्द, गोविन्दाऽऽनन्द, परमानन्दोद्धव, माधव, केशव, पुरुषोत्तम, नरोत्तम, कृष्णेत्यादयः । एते सर्वे याजमानिकस्वर्गीयफलसाधनाय तत्र यज्ञे यथा विहितानि कर्माणि कुर्वाणा आसन् । ___तत्रैवावसरे श्रीवीरप्रभुः समवसरणे वर्णसिंहासनासीनः प्राङ्मुखः पयोवाहध्वनिविजित्वर्या गिरा मिथ्यात्वपy दूरीकुर्वन्नुपदिशन्नासीत् , तच्छ्रोतुमौत्सुक्येन वैमानिकाः सुरा दुन्दुभीन्नादयन्तो गगनादवतरन्ति स्म । देवदुन्दुभीरवमाकर्णयन्तः सकलास्ते विप्रा अजरीदृष्यन्त, वावदाचक्रुश्च- अहो ! धन्या वयम् , मन्त्रेषु च कियती शक्तिः, यान्मन्त्रानस्मदुच्चारितानाकर्ण्य प्रत्यागच्छन्ति देवाः। अथ चाण्डालपाटकं विमुच्याऽन्येन पथा यथोत्तमा वर्णा व्रजेयुस्तथा ब्रह्मयज्ञं विहाय, श्रीवीरविभोः समवसरणेऽहमहमिकया सत्वरं गत्वा, प्रथमं सर्वशं महावीर वन्दिष्य इति मिथो वदन्तः समाजग्मुः । तदेन्द्रभूतिर्मनस्यमर्षमानीय तत्रस्थान् विप्रानाख्यत्-इदमत्यद्भुतं जातं तत्पश्यत, यन्मयानामज्ञानितया तेषु भ्रान्तिः सम्भाव्यते; परन्तु देवा ज्ञातारो भूत्वापीहशीं भ्रान्तिमापुः । यदेनं यज्ञमण्डपं पश्यन्तोऽपि कुत्राप्यन्यत्र व्रजन्ति । जगत्यधुना मत्तोऽधिकः सर्वज्ञः को वरीवर्त्यन्यः ? यत्पार्श्वे सुरा एते यान्ति । कश्चिदपरो जगाद-नहि नहि, नगराबहिः कश्चिन्महाधूर्तः समागतो महताडम्बरेण सन्तिष्ठते, ऐन्द्रजालिक इव लोकानशेषान् वञ्चयति ख्यापयति चाऽहं सर्वज्ञोऽस्मीति, सर्वेषां त्रैकालिकं मानसिकं वाचिकं कायिकश्च सर्व कार्यं जानामि । अत एते सुरा असुरा नराश्च तद्दर्शनवन्दनादिविधित्सया आयान्ति । इति श्रुत्वा कुप्यन्निन्द्रभूतिजंगौ-अरे ! ईदृक्कोऽस्ति यो हि सर्वज्ञं मामजानन्निजसर्वज्ञत्वं प्रचिख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org