SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ( २०६ ) श्रीकल्पसूत्रार्थप्रबोधिनी. स्वधर्मतत्परा: परकान्तासहोदराः सत्यसन्धाः शरणागतवत्सलाः शौर्योदार्यगाम्भीर्यचातुर्यादिगुणाधारा रणाङ्गणे धीराः प्रतिपक्षिहृदयभूमिदलनशीराः सर्वाङ्गीणसौरभ्यधराः केप्लराभोष्णीषधराः पृथुग्रीवभुजम्कन्धा बृहद्वक्राऽऽयतश्मश्रुशोभां वहन्तश्चेल्लुः । चतुरशीतिकोट्यः स्त्रियो मधुरं गायन्त्यः, षट्पञ्चाशत्कोटयो ध्वजिनः, अत्युच्चैर्बिरुदावली पापव्यमाना द्वादशकोटयो वन्दिनः, द्वादशकोटिमितशिविकादियानानि, पञ्चदशलक्षं खच्चरा भारवाहिनः, त्रिलक्षं श्रीछत्रम् , रथा द्वाचत्वारिंशल्लक्षम् , कोटित्रयी चामराणाम् , अशीतिलक्षं नीशानम्, सप्ततिलक्षमानकानाम् , भेर्यश्च षण्णवतिकोटयो वाद्यमानाः, नवलक्ष मर्दलाः, यष्टिधारिणः पञ्चचत्वारिंशल्लक्षम् , षष्टिकोटिवैणविकाः, प्रधानवर्गा नवतिको. टिमिताः । इत्थं वादित्रैर्जन्यैश्चानुगतः, सर्वोषधिमिश्रसुरभिवारिणा स्नपितः, मात्रा शुभगन्धाक्षतादिना वर्धापितः, शिरसि धृतनवकोट्यर्घमुकुटः, पञ्चाशत्कोटिकाङ्गदशोभितबाहुयुगलः, भानुकोटिमूल्यकरत्नाढ्यकुण्डलयुगलमण्डितकर्णयुगलः, अष्टचत्वारिंशत्कोट्यर्घरत्नजटिततिलकविभूषितभालः, पञ्चविंशतिकोटिलभ्यमुद्रिकासुशोभिताङ्गलिकः, एतावत् ( २५) कोटिकनानारत्नजटितग्रीवाभरणः, आर्वद्वयिकसद्रत्नजटितशृङ्खलः, पञ्चाशत्कोटिकरत्नमयचम्पकलिकः, देवार्पिताऽमिताघोष्णिग्धरः, पञ्चविंशतिकोटिनिर्मितरत्नजटितमणिबन्धाऽऽभरणः, एतावत् ( २५) कोटिकरत्नजटित वरणाऽऽभरणः, त्रिंशत्कोटिकसद्रत्नमयोपानहौ परिदधानः, षण्णवतिकोटिकरत्नाञ्चितश्रीफलकरः, परिधापितोचिताऽशेषवसनः, अञ्जनाञ्चितनयनः, सुसज्जितगजेन्द्राऽऽरूढश्चामराभ्यां वीज्यमानः, शिरसि धृतमेघानुकारिभासुरातपत्रो मूर्तिमान् पुष्पधन्वेव शोशुभ्यमानः, इन्द्रादिभिर्देवैः परिवृतः, वरराजो भगवान् नेमिनाथ इन्द्राणीप्रमुखसुरसुन्दरीषु सानन्दं जेगीयमानासु रम्भाद्यप्सरःसु नरीनृत्यमानासु सरस्वत्यां वीणां वादयन्त्यां कृष्णबलरामादिदशदाशार्हेषु प्रमोदभरेष्वनुगच्छत्सु मन्दं मन्दं व्रजन्नुग्रसेनसदनाऽभ्याशमाययौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy