________________
षष्ठं व्याख्यानम् ।
( १६१) म्बिकस्य क्षेत्रे शालविटपिनस्तले गोदोहनाऽऽसनयाऽऽतापनां कुर्वतो निर्जलनुपोषणद्वयं विदधतश्चन्द्रमसायुक्त उत्तराफल्गुनीनक्षत्रे, शुक्लध्यानीयाऽऽद्यभागद्वयं ध्यायतः प्रभोर्महावीरस्याऽनन्ते निरुपमे निर्बाधे, निरावरणेऽखण्डे. केवलवरज्ञानदर्शने समुत्पेदाते । समुत्पन्ने च केवलज्ञाने महावीरो ह्यर्हातः, अभूच्चाऽशोकत्वनिर्ममत्वप्रातिहार्यादिगुणोदयात्पोपूज्यतमःसुराऽसुरनरेन्द्राणाम् । स च सर्वदर्शी सर्ववेत्ता केवली भगवान् सुराऽसुराभ्यां सहितस्य समस्तलोकस्य कृत्स्नं पर्यायमवेदीत् । साक्षात्कृतवाँश्च सर्वजीवानां भवान्तरादागमनं, भविष्यन्तीं भवान्तरीयां गति, स्थितिमायुः, च्युतिमुत्पत्तिं, तेषां सर्वेषां मानसीं वृत्तिश्च याथातथ्येन । एवं विदितवेदितव्यः परापरज्ञः प्रभुः समेषां भुक्तं पीतं कृतं कारितं चोरितं सेवितं व्यक्तमव्यक्तं साक्षादपश्यत् करामलकवत् । त्रिलोक्यामेतस्यामबाधितं त्रैकालिकमशेवं साक्षात्कुर्वाणो जघन्यतः सुराणां कोट्या सेव्यमानः समेषां जीवादीनामजीवानां धर्मास्तिकायादीनाञ्च पर्यायान् विदन् वीरविभुर्विजहराञ्चकार । अथ भावतो महावीरस्य केवलवरज्ञाने समुत्पन्ने चतुःषष्टीन्द्रा आसनचलनात्तद्विदित्वा, युगपदेव ते सर्वे दीक्षामहामहमिव तन्महोत्सवविधित्सया तत्राऽऽययुः । विधाय च महामहं नगराबहिः समवसरणं व्यरीरचत् । तत्र समवसरणे मिलिताय सुराऽसुरसंघाय स्वर्णसिंहासने समासीनः प्रभुः क्षणं धर्मदेशनामदात् । परन्तुषरभूमौ बीजवाप इव भागवती देशना मुधैवा. ऽजनिष्ट, नैकोऽपि व्रतनियमादिकं जग्राह । प्रभुरपि तत्र लाभाऽभावेन देशनावैफल्यं जानन् केवलं तीर्थङ्करमर्यादापरिपालनायैव क्षणमुपादिशत् । तदैव विहरमाणो विभुादशयोजनान्तराले मध्यमायामपापायां पुर्या महासेनवनमाजगाम । रचितं देवैस्तत्र कमनीयतरं समवसरणम्।
तदा तस्मिन् ग्रामे याजयतः सोमिलनाम्नो विप्रस्य वेश्मनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org