SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ( १६२ ) श्री कल्पसूत्रार्थ प्रबोधिनी. समाहूता याजयितारो वैदिकाः कर्मठाश्चतुर्दशविद्यानिष्णाताः सदर्पा जगदेक एव विद्वांसो वयमिति मन्तारः स्वं सर्वज्ञमानिनो मुख्याइन्द्रभूतिः १, अग्निभूतिः २, वायुभूतिः ३, व्यक्तः ४, सुधर्मा ५, मण्डितः ६, मौर्यपुत्रः ७, अकम्पितः ८, अचलभ्राता ६, मेतार्यः १०, प्रभासः ११; एकादशैते समागुः । तत्राऽऽद्यास्त्रयः सोदरा गौतम गोत्रीया वर्त्तन्ते । एतेषां त्रयाणामेकैकस्य पार्श्वे पञ्चशतमध्येतारो वर्त्तन्ते । तुर्यपञ्चमयोः पार्श्वेप्येतावन्तः शिष्याः सन्ति । मण्डितमौर्यपुत्रौ भ्रातरौ स्तः, एतयोरन्तेवासिनां संख्या सार्धशतत्रयी वर्त्तते । शेषाश्चत्वारो वाडवाभ्छात्राणां शतत्रयमध्यापयन्ति । एते सकला एकैकस्मिन् संशयाना अपि सर्वज्ञमानित्वाऽखर्वगर्वहानिशङ्कया मिथः कदापि नैव परी - पृच्छयन्ते । इत्थमेते चतुश्चत्वारिंशच्छत शिष्यवृन्दैर्निषेव्यमाणास्तत्रोपतस्थिरे । अन्ये चोपाध्यायपद भाजः शङ्कर, शिवङ्करेश्वर, महेश्वर, धनेश्वर, शुभङ्कर, सीमङ्कर, क्षेमङ्कर, करुणाकरप्रभृतयः । द्विवेदिनो - महादेव, शिवदेव, रामदेव, वामदेव, कामदेव, सहदेव, हरदेव, वासुदेव, श्रीदेव, बलदेव, धनदेव, सोमदेवादयः । त्रिवेदिनो- हरिशर्माऽग्निशर्म, महाशर्म, देवशर्म, नरशर्म, सोमशर्म, सूरशर्म, राजशर्म, गुणशर्म, जयशर्म, नागशर्म, विष्णुशर्म, शिवशर्म, धनशर्मप्रभृतयः । चतुर्वेदिनोहरिहर, नरहर, नारायण, नीलकण्ठ, कालकण्ठ, वैकुण्ठ, श्रीकण्ठ, मुरारि, हरिराम, जगन्नाथ, विश्वनाथ, श्रीराम, रामकृष्ण, शुकदेव, चन्द्रदेव, स्वयम्भुवादयः । शुक्लयजुर्वेदीयाः कमलाकर, दिवाकर, प्रभाकर, यशस्कर, शोभाकर, गुणाकर, रत्नाकर, श्यामदास, रामदास, गोकुलदास, कृष्णदास, देवीदास, हरदास, द्वारकादासेत्यादयः । व्यासोपनामानः श्रीपति, उमापति, गणपति, प्रजापति, विद्यापति, भूपति, महीपति, लक्ष्मीपति, गङ्गापति, पृथ्वीपति, देवपति, दानवपति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy