SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ( १६० ) श्री कल्पसूत्रार्थप्रबोधिनी. विहरमाणः प्रभुरनुपमज्ञानदर्शनचारित्रधारी कामिनी पशुपण्डकादिरहितवसतिविहारी अनुत्तरपराक्रमी, निरुपमाऽऽर्जवः, अनुपमं म्रदिमानं दधानः, स्तोकोपधित्वाद् द्रव्यतो गौरवत्र्यत्यागाद्भावतश्चानुत्तरं लघिमानं विभ्राणः, निरुपमक्रोधाऽसद्भावः अनुत्तरलोभत्यागः अनुत्तरसन्तोषः, मनोगुत्यादिना निरुपमः । अनुपमाऽदूषितचारित्र परिपालनेन सुविहितद्वादशविधतपसा, समुचितमोक्षफलेन, रत्नत्रयरूपनिर्वाणमार्गेण स्वाऽऽत्मानं भावयन् द्वादशसमा व्यत्यैत् । तत्र भगवदाराधिततपः संख्यानमेवम् — चतुर्मासक्षपणानि त्रिमासक्षपणे साद्विमाक्षपणे द्विमासक्षपणानि सार्धमा सक्षपणे माक्षपणानि 2 षण्मासक्षपणम् पञ्चदिनोने षण्मासक्षपणे २ १ पक्षक्षपणानि Jain Education International ७२ २२९ १२ षष्ठभक्ताः अष्टमभक्ताः २ १ दिनद्वयमाना भद्रप्रतिमा २ चतुर्दिनप्रमाणा महाभद्रप्रतिमा ? ६ दशदिवसद्वयसी सर्वतोभद्रप्रतिमा १ २ तेषां पारणादिवसानि ३४९ १२ , अकरोच्चैतत्सकलं जलमप्यपी मानः कदाचिदपि नित्यभक्तञ्चतुर्थभक्तं वा नाऽचर्कः । एतावन्ति तपांसि भगवान्महावीरः प्रव्रज्यादिन:च्छास्थ्यावधि व्यदाधेत् । ६० भगवतः केवलोत्पत्तिर्गणधरादिस्थापना च अथ त्रयोदशे वर्षे, ग्रीष्म, वैशाखे मासि, सितपक्षे, दशम्यां तिथौ, पूर्वगायां छायायां सत्यां वर्त्तमानायाञ्च पाश्चात्य पौरुण्याम्प्रमाणप्राप्तायां सुव्रतनामके दिवसे, विजयावहे मुहूर्ते, जृम्भिकानगराद्बहिः, ऋजुवालुकानदीतीरे, व्यन्तरालयान्नातिदूरे नातिसमीपे श्यामाक कौटु For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy