SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ षष्ठं व्याख्यानम् । (१५६) वृषभ इवाऽऽत्तमहावतभारवहने समर्थतरः, मृगपतिरिव परीषहश्वापदैरजय्यः, मेरुरिवोपसर्गवातवातैरप्यचलः, सरित्पतिरिव हर्षशोकादिभिविक्रियामलभमानः, शशीव शीतलः, भानुरिव समिद्धतेजाः, पृथ्वीव सर्वसहः, उपेक्षितजीवितमरणः, अग्निरिव कर्मदलदहनसमर्थः, जात्यकाञ्चनवच्छरीरकान्तिमान् , अपारस्याप्येतस्य भवाम्सोधेः पारदृश्वा, चन्दनतरुरिव द्विषत उपक श्च सममेव वासयिता, तृणमणिलोष्टकाञ्चनानि समानि पश्यन् , प्रावृषं विहाय शेषानष्टौ मासान् ग्रामे रजनीमे कामधिनगरे पञ्चरात्रं निवसन् क्रमेण ग्रामानुग्रामं व्यजरीहरीत् । सदा सर्वत्र प्रतिबन्धरहितोऽभूद् भगवान् । प्रतिबन्धो हि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा वर्तते । तत्राप्यायः सचित्ताऽचित्ततदुभयभेदात् त्रिधाऽस्ति । तत्र मातापितृपुत्रादिः सचित्तः, आभूषणप्रमुखोऽचित्तः, साल तवनितादिस्तदुभयः १, कस्मिंश्चिद् ग्रामे, नगरे, कानने, धान्यादिनिप्पादनस्थानके क्षेत्रे, धान्यानां निर्वसीकरणस्थानके खले. गृहेऽङ्गगे व्योमनि वा नैकस्मिन्नपि प्रतिबध्योऽभूत्प्रभुः २. शतकमलदलभेदनयोग्येऽतिसूक्ष्मकाले, असंख्यसमयात्मिकायामावलिकायां, श्वासोच्छ्ासे, सप्तोच्छासमिते स्तोके, घटिकाषष्ठभागात्मके क्षणे, सप्तस्तोकप्रमिते लवे, सप्तसप्ततिलवमिते मुहर्ते, त्रिंशन्मुहूर्तात्मकेऽहोरात्रे, पञ्चदशाहोरात्रलक्षणे पक्षे, पक्षद्वयात्मके मासे, द्विमासात्मके ऋतौ, ऋतुत्रयात्मकेऽयने, अयनद्वयात्मके वत्सरे, एतेषु, इतरस्मिन् वा दीर्घकाले करिष्ये खल्वेतदिति प्रतिबन्धो नाऽऽसीद् भगवतः ३, क्रोधलोभमानमायाहासत्रासरागद्वेषकलहाऽसद्भाषणपैशुन्यस्त्रीरमण-मोहनीयकर्मोदयजनितमानसोद्वेगलक्षणाऽरति-मोहनीयोद्भूतचित्ताह्लादलक्षणरति-मृषाकापट्यविविधदुःखनिदानभूतमिथ्यात्वलक्षणेषु भगवान् प्रतिबध्यो नाभूद्भावतः कदाचिदपि ४। गमनागमनयोर्यायां, भाषायाम् , द्वाचत्वारिंशद्दोषवर्जिताऽऽहारग्रहणात्मिकायामेषणायां समितौ सावधानं आसीत्प्रभुः । इत्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy