SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ( १५८) श्रीकल्पसूत्रार्थप्रबोधिनी. तत्पुण्येन दैवीं गतिमंहतः स्म, गोपालस्तु तत्पापेन सप्तमं नरकमैयः। __इत्थं भगवतो महावीरस्य जघन्यमध्यमोत्कृष्टभेदादुपसर्गास्त्रिधा जज्ञिरे । तत्र व्यन्तरीकृतं दुःसहं शीतपरीषहनं जघन्यं, सङ्गमसुरकृतमुपसर्ग मध्यमम्, कर्णान्तःकीलकनिधानतदुद्धरणलक्षणमुत्कृष्टमजायत । एवमर्काब्दं यावद्भगवान् खल्वनेकविधानुपसर्गान् सहमानः सु. खाऽऽसीनो नाऽभवरक्षणमपि, गोदोहासन इव कदाचिदुपाविशत्, न वा कर्हिचित् प्रभुर्निद्रातवान् , केवलं शूलपाणियक्षकृतोपसर्गे कायोत्सर्गे तिष्ठत्रेव क्षणमात्रमखपीत् । एवं चरमतीर्थपतिर्बहुपसर्गाश्चिरमसहिष्ट । 'भगवानृषभदेवस्तु वर्षमेकं भिक्षादौर्लभ्यमन्वभूत् । अवशिष्टद्वाविंशतिजिनानान्तु स्तोका एवोपसर्गा अजायन्त ' । ५९ भगवतो गुणवर्णनं, तपःसङ्ख्यानश्च___अथ श्रमणो भगवान्महावीरस्त्रियोगसंयतत्वात् त्रिगुप्तिगुप्तः, निगुप्तहृषीकनिचयः, वसत्यादिनवधावृत्तिवर्जितब्रह्मचर्यरतः, अकोपनोऽ. लोलुपः, मानोज्झितो निर्ममः, बाह्याऽभ्यन्तरवृत्तिभ्यां शान्तः, सन्त्यकाऽशेषसन्तापः, हिंसाद्याश्रवद्वारराहित्यादनाश्रवः, द्रव्यादिपरिग्रहहानादकिञ्चनः, विमुक्तस्वर्णादिग्रन्थिकः, द्रव्यमलभावमलाभ्यामलिप्तः, रागाद्युपरञ्जकविरहाच्छङ्घ इव निरञ्जनः, जीवस्येवाऽप्रतिबद्धगतिः, वायुरिव स्वैरविहारः, शारदवारिदवदतिनिर्मलाशयः, कमठ इवेन्द्रिय ग्रामगोपनशीलः, खङ्गिशृङ्गमिवाद्वितीयो रागादिद्वैतभावोज्झितः, पक्षीव विमुक्तपरिग्रहः, पद्मपत्रमम्भसेव कर्मदलैरश्लिष्टः, कादाचित्कमपि भारण्डपक्षीव प्रमादं नाभजत, कुञ्जर इव कर्मारातीन् दलयितुं शुरतरः, १ अस्यैकस्मिन्नेव देहे द्वौ जीवी, द्वे च मुखे, त्रयश्चरणाः, भाषा च मानुषी, द्वाभ्यामपि मुखाभ्यां सममेवाऽश्नाति । आहारादिवपरीत्ये च म्रियते । सदा प्रमादराहित्येनैव वर्त्तते । बिभर्ति च द्विसहस्रसिंहबलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy