________________
षष्ठं व्याख्यानम् |
५८ भगवतःश्रवसोर्गोपालकृतशङ्कु कीलनम्---
"
"
अथ विहरमाणः प्रभुर्जुम्भिकानगरी प्राययौ । तत्र शक्रः समेत्य नाटकं कृत्वा प्रभो ! इयता कालेन तवोत्पत्स्यते ज्ञानमित्याभाष्य स्वस्थानभियाय । ततः प्रभुर्वेदिकग्राममाससाद । तत्र च चमरेन्द्रः सुखशातं प्रष्टुमागात् । तदनु चम्पापुरीमागत्य प्रभुः स्वातिद तविप्रवेश्मनि प्रावृषश्चतुरोमासानुवास ( १२ ) । तत्र च बहिः कृतपारणः प्रभुः षाण्मानिकग्राममाययौ । ग्रामाद् बहिरेकत्र कायोत्सर्गेणाऽतिष्ठत् । तत्रैको गोपालो वृषान् मुक्त्वा गृहं गतवान् । पुनश्चिरेणागत्य प्रभुमप्राक्षीत्आर्य ! अत्र मुक्ता वृषभाः कुत्राऽगमन् ?, प्रभुस्तु प्रतिमास्थत्वान्नोत्तरं ददौ । तदा चोकुप्यमानो गोपः प्रभोः श्रवसोः काष्ठशलाके तथा कलितवान् यथा न कोऽपि पश्येत् नैव केनचिदाकृष्येताम् । तेन भगतो महती वेदना प्रादुरासीत् । एतत्कर्म पुरा भगवाँत्रिपृष्टवासुदेवभवे शय्या पालकस्य कर्णयोरत्युष्णत्रपुनिधापनेनाऽबध्नात् स एव च शय्यापालको भवपारम्पर्येण गोपालोऽभूत् । अनुसन्धाय च प्राक्तनं तद्वैरं भगवतोऽप्येवमकरोत् । तदुद्भूतप्रभूतप्रपीडनेन कृशीभूतः प्रभुस्ततो विहृत्य मध्यमायामपापायां पुर्यामाजगाम । तत्र च सिद्धार्थमहेभ्यस्य गृहे भिक्षितुमागात्प्रभुः । सं व्यथितं विलोक्य तत्राssसीनः खरकनामा वैद्यः श्रेष्ठिनमुवाच - प्रभोः कापि महती वेदना वर्त्तते । सोऽवक् तर्हि तूर्णमेतश्चिकित्सां विधेहि । ततः श्रेष्ठी वैद्येन सहोद्याने समागत्य वृक्षद्वयाऽन्तराले कौशेयतन्तुना द्वयोर्वृक्षशाखयोगृहीत कर्णान्तः-स्थकीलक सण्डासौ युक्त्या बद्ध्वा युगपदेव तयोः शाखयोरानमने कृते कीलके प्रभोः कर्णाभ्यां तत्क्षणं निरगच्छताम् । इत्थं यत्नाऽतिशयेन मतिवैचक्षण्येन च कीलकनिष्काशने सञ्जाताऽसहनीयवेदनया भगवाँस्तथाऽऽचुक्रोश, यथा भगवदारावेण सकलं वनं घोरनादमयमजायत । अथ संरोहिण्यौषधिप्रयोगेण प्रभुर्निर्व्रणतामापत् । वैद्यः श्रेष्ठी च मृत्वा
Jain Education International
For Private & Personal Use Only
( १५७ )
www.jainelibrary.org