________________
(१५६)
श्रीकल्पसूत्रार्थप्रबोधिनी. तुर्थदिवसे स श्रेष्ठी पश्चादागत्य चन्दनामपश्यन् प्रातिवेश्मिकाअनान् पप्रच्छ । परन्तु तत्पत्नीकलहभीत्या कोऽपि तथ्यं जानन्नपि नाख्यत्, तदा काचिदेका वृद्धा तत्पन्या कृतां चन्दनायाः कदर्थनामचकथत् । ततः श्रेष्ठी कथमपि कपाटमुद्घाट्याऽन्तः प्रविश्याऽतिदुर्दशामापन्नां चन्दनामालोक्य, निष्काश्य देहल्यामेकः पादोऽन्तर्द्वितीयः पादो बहिर्यथातिष्ठेत् ; तथोपावेश्य निजगाद-वत्से ! तिष्ठ, अहमधुनैव निपुणमयस्कारमानीय तव निगडं भञ्जयिष्यामि । चन्दना वदति तात ! क्षुन्मामधिकं बाधते । तच्छ्रुत्वा सूर्पाऽस्ले कुल्माषानर्पयित्वा लोहकारमानेतुं बहिर्ययौ । तदा चन्दना भावयति-यदस्मिन्नवसरे कोऽप्यतिथिरागच्छेत्, तर्हि तस्मै प्रदाय स्वयं भुनजै । तदा मध्याह्नाऽतिक्रमे जाते वीरविभुर्गोचर्यै समागतमुदीक्ष्य, प्रमुदिता चन्दना भगवते कुल्माषाँस्तदवस्थैव दातुमकामयत, तावद् गृहीताऽभिग्रहेषु रोदनमपश्यस्तदलात्वैव प्रभुः परावर्त्तत । भगवति परावृत्ते सा तद्दःखाद्रोदितुमारभत-हन्त ! धिङ् मां पापीयसी भाग्यविहीनाम् , यतः साधुरपि मद्धस्तादाहारं नाऽगृह्णात्। ततः सकलाऽभिग्रहपूर्तिमवलोक्य परावर्त्य च तदाहारमाददात् , देवाः पञ्चदिव्यानि प्रकटयाञ्चक्रुः, शुशुभे च शिरसि समुद्गता वेणी, पादयोनिगडौ भग्नौ भूत्वा नूपुरौ कङ्कणौ च बभूवतुः।प्रादुरासीत्सौधर्मेन्द्रः, शतानीकनरपतेःप्रेयसी मृगावत्यपि कथञ्चिदुपलक्ष्य मातृष्वमृत्वाच्चन्दनां द्रष्टुं तत्राऽऽगतवती । तत एव सम्बन्धाद्वसुधाराधनमादित्सुं शतानीकं निवार्य चन्दनाऽऽज्ञया तद्धनं धनवाहाय दत्वा, यदैषा चन्दना वीरविभोः प्रथमा साध्वी भविष्यति, तदा तदुत्सवे किलैतद्धनं व्यतव्यमित्यभिधाय शक्रः स्वस्थानभगच्छत् । इतश्च कस्यचिन्मुखाद् गृहे वसुधारावृष्टिं निशम्य सा मूला त्वरमाणा तजिघृक्षया पितृसदनात्समागत्य तत् स्त्रापतेचं यावद् गृह्णाति, तावद्दहन उदगच्छत्तेन तस्या वसनं दग्धम् । देवगणैर्निर्भय॑माना विच्छायवदना सा मूला तात्रपाञ्चके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org