________________
षष्ठं व्याख्यानम् ।
(१५५) रौत्सीत् , तद्भीत्या समराङ्गणादधिवाहनो राजा ननाश । तस्मिन्नष्टे शतानीकश्चम्पां लुलुण्ट । नष्टेषु पौरजनेषु धारिणी राज्ञी वसुमत्या दुहित्रा सत्रा निजशीलजीवितयोस्त्राणाय पलायेताम् । मार्गे कश्चिच्छतानीकपत्तिस्ते मातापुत्र्यो बन्दितया निगृह्य जगाद-अयि ! भार्या मे भव, नो चेद्धनिष्यामीति । वज्रोपममतिगर्हितं तद्वचो निशम्य तत्कालमेव जिह्वां सम्मर्य सुखेनाऽसून् औज्झत् । पत्तिर्दध्यौ-इयमपि मातेव मरिष्य. त्यत एनां विक्रीणानि चेद्वरम् , इत्यवधार्य वसुमतीमाश्वास्य, कौशाम्बीमानीय चतुष्पथे विचिक्रीषया तस्थौ । तत्र प्रथममेका काचिदक्का तां केतुमागतवती । वसुमती तामपृच्छत्-त्वं कासि, का च ते वृत्तिः ? तयोक्तम्-सुन्दरि ! मां रूपाजीवां जानीहि, उत्तमैः पुरुषैः सङ्गतिश्च मामकीवृत्तिरस्ति । तच्छ्रत्वा वसुमत्यवक्-नाऽमुं चिकीर्षामि गर्हिता-- चारम् । तथापि सा वेश्या बलात्तां केतुमैच्छत् । तदवसरे शासनदेव्या विच्छिन्नकर्णनासिका साऽका रोरुद्यमाना क्वचिदनश्यत् । तदनु धनवाहनामा कश्चिन्महेभ्यस्तत्राऽऽगात् । स तामुचितमूल्येनाऽक्रीणात्, गृहमानीय ' चन्दना ' इति नाम धृत्वा पुत्रीधिया स्थापितवान् । गुणगणैर्विभूषिता सा श्रेष्ठिनः प्रीतिभाजनमजायत । एकदा स्वपादौ धावत्याश्चन्दनाया रूपेणाऽप्सरस इव भासमानाया भूमौ लुठन्ती वेणी गृहीत्वा तदुपरि धृतवान स श्रेष्ठी । तदालोकमाना मूलाभिधाना जन्मवन्ध्या तत्पत्नी मनस्यचिन्तयत्ः हंहो ! इयं तरुणी लोकोत्तरवपुःश्रिया सकला अपि ललना अधःकुर्वती नूनं भविष्यति श्रेष्ठिनः प्रेयसी मे सपत्नीति । अतश्चन्दनोपरि द्वेषमुद्वहन्ती किलैकदा श्रेष्ठिनि ग्रामान्तरं प्रयाते लब्धाऽवसरा सा तां चन्दनामञ्जसा शिरोरुहान् भ्रमरीनिभान् वापयित्वा, हस्तौ पादौ च शृङ्खलितौ विधाय, शणसूत्रमयीं शाटी परि. धाप्य, कोष्ठके क्षिप्ता द्वारकपाटं दृढीकृत्य पित्रालयमगात् ।
चन्दना स्वकर्म निन्दन्ती परमेष्ठिमन्त्रान् सास्मराञ्चके । ततश्च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org