________________
(१५४)
श्रीकल्पसूत्रार्थप्रबोधिनी. लीलभत्; तथापि तस्य मिथ्याविनः पूरणमहेभ्यस्य सदने दासीहस्तलब्धस्विन्नकुलमाषैरेव पारणमकृत । तदा जज्ञिरे च पञ्चदिव्यानि । सकलाः पौरा आख्यन्-धन्यतमोऽयं पूरणः, यस्यौकसि भगवान् पारणं व्यधत्त। जीर्णस्तु नितरामचेखिदीत्-नूनमहं भाग्यहीनोऽस्मि, यतो भगवान्ममौकसि व्रतं नाऽपपारत् । तत्र ग्रामानुग्रामं विहरन्नागात्कश्चित्केवली भगवान् । तत्रत्यो नरपालस्तमप्राक्षीत्-स्वामिन् ! अस्मिन्नगरे भाग्यशाली को वर्वर्ति ? केवली जगौ-राजन् ! सर्वतो भाग्यभाजं जीर्णश्रेष्ठिनं जानीहि । पुनरूचे राजा-भगवन् ! भगवते पूरणो हि दानं ददिवान्, स धन्यः सर्वाधिको जातः । जीर्णस्य भाग्यभाक्त्वं कथमभूत् ? केवली जगौ-पूणो हि भावं विनाऽददात् , अतस्तस्य द्रव्येणैव लाभो जातः । जीर्णस्तु भावतो दानमदित । अतोऽसौ भावदानमाहात्म्यादच्युतदेव. लोकीयमायुरबध्नात् (११)। ततो भगवान् सुसुमारनगरमागच्छत् , तत्र च भगवति प्रतिमया तिष्ठति सति चमरेन्द्रः प्रभुं शरणीकृत्य प्रथमस्वर्गमगमत् । अवशिष्यते मे किञ्चित्कर्मेति जानानः प्रभुः कौशाम्बीपु. रीमाययो । तत्र शतानीको राजा, तस्य मृगावती राज्ञी वर्त्तते। विज. याभिधः प्रतिहारी, वादीनामा धर्मपाठकः, सुगुप्तनामा मन्त्री, तत्पत्नी नन्दा श्राविका, मृगावत्याश्च समानवयस्काऽस्ति । तत्र पौषशुक्ल प्रतिपदि भगवानेवं नियमं लातवान्-द्रव्यतः कुल्माषान् सूर्पकोणस्थितान् , एक पादं गृहदेहल्यामपरं बहिरित्थं तिष्ठन्तीति क्षेत्रतः, भिक्षुणामागमनकालातिकान्तवेलायामिति कालतः, निगडबद्धचरणयुगला मुण्डितमूर्धन्या दासीभूता नृपदुहिता कृताऽष्टमभक्तिका रुदती यदि दास्यति, तदा ग्रहीष्यामि नेतरथेत्यभिग्रहं लात्वा प्रभुः प्रतिदिवसं भिक्षायै समायाति, किन्तु तादृशदात्रिकाया अभावादनात्तभिक्ष एव परावर्त्तते । मन्त्रिप्रमुखा भगवदभिग्रहपूर्तये शतधोपायानकार्युः, तथाप्यपूर्ण एव तस्थौ । अथैकदा शतानीकः क्षितीशश्चतुरङ्गया चम्बा सह चम्पापुरीम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org