________________
पष्ठं व्याख्यानम् ।
(१५३) विरया वत्सपाल्या प्रतिलम्भितेन परमानेन पारणमचरीकरीत् । व्यधुश्च देवताः पञ्चदिव्यानि । एतावन्तं कालं सौधर्मवासिनः सर्वे देवा देव्यश्च चेखिद्यमाना नो मुमुदिरे, नवोत्सेहिरे किमपि विधातुम् , नृत्यगीतादिसर्वमौज्झत्तावदिन्द्रः, मत्कृता प्रशंसैव प्रभोरियतां क्लेशानां निदानमभूत् इति पश्चात्तापं विदधत्पाणिकमलतलन्यस्तवदनःशोशुच्यमानो दीनदृष्टिस्तस्थौ : अथाऽपूर्णप्रतिज्ञत्वाद्दीनाननमायान्तं तं सुराधमं वीक्ष्य, पराङ्मुखो भूत्वा देवानेवमाख्यातवानिन्द्रः--एष पापीयान् कर्मणा चाण्डालादप्यधमः समेति, एतदवलोकनाद्वयमपि पापिष्ठा भविष्यामः, मत्तो भीतिमगणयन् पापादप्यसौ यन्न बिभाय तदद्भुतं मन्ये । अत एनं पापिष्ठं दुराचारिणं स्वर्गादवश्यमधुनैव निष्काशयत । शक्रादेशं श्रुत्वाऽनेके सुरसुभटा यष्टिमुष्ट्यादिना तं बाढं निघ्नन्ति स्म । सुभटैगलग्राहं निर्गमितश्चौरवत्कान्दिशीको भवन् निर्वाणाङ्गार इव तेजलोज्झितो मन्दराचलीयचूलिकामागत्य, स सङ्गमदेवः पत्न्या सह सागरो. पममायुर्व्यत्यैत् । इत्थं प्रभुर्दशमेऽब्दे महोपसर्गपटलीमसहिष्ट । ५७ भगवदभिग्रहश्चन्दनवालाऽऽख्यानश्च___अथाऽऽलम्भिकानगरीमागत्य हरिकान्तः श्वेताम्बिकायां हरिसहश्चोभौ विद्यत्कुमारेन्द्रौ प्रभुमभिवन्द्य सुखशातमप्राष्टाम् । श्रावस्त्यां स्कन्दप्रतिमायां प्रविश्य शक्रो भगवन्तमभिववन्दे; तेन भगवतो महिमा वरीवृधाञ्चके। कौशाम्ब्यां चन्द्रसूर्यों भगवद्वन्दनार्थमवतेरतुः । काश्यां शक्रः, राजगृहे चेशानः, मिथिलायां राजा जनको धरणेन्द्रश्च भगवन्तं सुखशातं परीपृच्छाञ्चक्रिरे। ततः प्रभुः सुखेन विशालामियाय, तत्र प्रावृषं कालं सकलं निनाय, ववृधिरे च तत्र धर्मध्यानानि । तत्र जीर्णश्रेष्ठी भावनामबीभवत्-प्रभो ! अस्याश्चतुर्मास्यां प्रतिदिनं भक्तपानादेर्लाभं मे ददस्त्र, इति प्रभुमभ्यर्थ्य सदैव भक्तपानादिकं प्रत्य
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org