________________
(१५२)
श्रीकल्पसूत्रार्थप्रबोधिनी. प्ससिं १, तथाप्यचलमेव प्रभुमवलोक्य सुरयुवतिरूपं विकृत्य, नानावि. धहावभावकटाक्षादिना प्रभुमनश्चालयितुं प्रायतत २०; इत्थमेकस्यामेव रजन्यामितरजनाऽसुविनाशिनामुपसर्गाणां विंशतिमचरीकरीत् । तत्सर्वं सासह्यमानः प्रभुर्महाशैलराडिव मनागप्यकम्पमानो ध्यानद्रढिमानमेव बाभजाञ्चके । अत्रैवमुत्प्रेक्षते कविः-प्रभुजगदुत्पत्तिलयस्थितिकरीमतुलां शक्तिं बिभ्रदपि यत्कृतापराधे सङ्गमसुरेऽनुकम्पां चकर्थ, तेनैव हेतुना कुपितकामिनी नायकमिव भगवन्मानसं विहाय नूनं निर्गतैवेति मन्ये ।
इयत उपसर्गान् कृत्वाप्यतुष्यन् सङ्गमदेवो यत्र यत्र प्रभुर्गोचर्य निरेति, तत्र तत्र सद्मनि प्रासुकमप्याहारमकल्प्यमकरोत् । लोकानां गृहेभ्यो धनानि वसनानि च मुषित्वा प्रभुपार्श्वे मुक्तवान् , लोकाः प्रभुसमीपे स्वस्वस्वापतेयमुदीक्ष्य चौरोऽयमिति बाढं निहत्य कलङ्कयन्ति स्म । शिष्यीभूय लोकानां सदने छन्नतया परिपश्यन् लोकैर्लक्षितः खल्वेवमुवाद, यदहं तदन्तेवासी स मे गुरू रात्रौ चोरयिताऽतोऽहं पश्यामि कुत्र किमस्ति । तन्मुखादेतच्छ्रत्वा सत्यमेवेति मन्यमाना लोका आगत्य प्रभुमघ्नन् । इत्थं जाजायमानमुपसर्गम्पश्यन् भगवानेवमभ्यग्रहीत्-यावदीदृशा विकटा उपसर्गा मे जायन्ते, तावदहं न भुञ्जीय, नो वा पिवेयम् । एवं सङ्गमसुरकृताऽकल्प्याऽऽहारप्रमुखनानाविधोपसर्ग सासह्यमानः प्रभुः षण्मासी निरशन एवाऽस्थात् । तत एकदा तं दुधियं गतप्रायं मत्वा, प्रभुर्यावद् ब्रजग्रामगोकुले गोचरीमादातुमागात् । तत्रापि तावदाहारमनेषणीयं विहितवान् प्रतिगेहं स दुर्मतिः । ततस्तथैव पश्चादागत्य बहिः कायमुत्सृजन्नतिष्ठत् । तदेत्थमुपद्रुतो भगवान्मनागपि नैव चस्खालेति मत्वा, विशुद्धपरिणामं त्रिभुवनजनपरिपूज्यं भगवन्तमवधिना विदित्वा, दोदूयमानमना अधमाधमः सङ्गमः कथमपि सौधर्म प्रत्यचलत् । भगवानपि तत्रासन्नगोकुले समागत्य कयाचित्स्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org