________________
षष्ठं व्याख्यानम् |
( १५१ )
त्रिलोक्याममुष्यां सुराऽसुरनराणां मध्ये कोऽपि नैव शक्नोति । तन्निशम्य कश्चित्सङ्गमाभिधः सामानिको देवः सुराधीशसभायां प्रतिज्ञातवान् - स्वामिन् ! किमेवं ब्रूषे ? अहमधुनैवाऽतिदृढमपि तन्मनः कदलीस्तम्भं वात इव कम्पयामीति प्रतिज्ञाय, स देवः प्रभोः पार्श्वमागत्य प्रथमं रजांसि ववर्ष, तेन प्रभुर्निरुद्धना साऽक्षिकर्णरन्धः समुच्वसितुमप्यशक्तोऽभवत् १ ततः प्रभुर्देहं वज्रतुण्डपिपीलिकादिना चालनीकल्पमचीकरत् २, वज्रसोदरमुखनिर्मितदंशैः प्रभोरशेषगात्रमददंशत् ३, तीक्ष्णमुखाभिर्घृतमीलिकाभिः सर्वाङ्गमदंशयत ४, वृश्चिकीभूय युगपदेवसहस्रशो दन्दशाञ्चक्रिरे ५, ततो नकुलीभूय भगवदङ्गानि नखैर्मुखैश्च दादराञ्चकार ६, व्यालीभूय भगवन्तं ददशाञ्चकार ७, ततो मूषकरूपेण भगवदङ्गानि चखाद ८, दन्तिनः करिण्यश्च भूत्वा करैर्जङ्घनामासुः, उन्निन्यिरे च ९, चरणैश्च भूयो भूयो मर्दयामासुः, दन्ताँश्च प्रजरीहराञ्चकुः १०, ततः पिशाचो भूत्वाऽट्टाट्टहासं वितन्वानः प्रभुं चिरमबीभपत् ११, महाव्याघ्ररूपेण प्रभुगात्राणि नखराभिर्दंष्ट्राभिर्विददार १२, भग वन्मातापित्रो रूपेण भगवदग्रे सकरुणं चिरं विश्वकोश १३, स्कन्धावारो भूत्वा भगवच्चरणयोर्मध्ये दहनं प्रज्वाल्य तण्डुलादिकमपाक्षीत् १४, ततश्चण्डालरूपेणाऽतितीच्णतुण्डानतिक्रूरान् पक्षिणः विकुर्व्य प्रभोरशेषाङ्गमभक्षयत् १५, प्रचण्डोद्धतमहावातेन शैलशिखराण्यपि पातयन् क्षितिमपि कम्पयन् भगवन्तमुन्नायमुन्नायमपीपतत् १६, तत उत्कलिकावातो भूत्वा भगवन्तं चक्रवदविभ्रमत् १७, मेरुचूलाक्षोददक्षं सहस्रभारमात्रं शिलाचक्रं भगवदुपरि मुमोच तेन च भगवानाजानु भूमिमग्नतामुपनीतः १८, ततः प्रभातप्रायं विकृत्य जगाद - आर्य ! जातं प्रभातम्, अतस्तूर्णमुत्तिष्ठ । भगवांस्तु ज्ञानप्रयोगाद्रजनीमेव वेविदीति १९, ततो दैवीं विविधां सम्पदं वितत्य वावदीति स्म - मुनिपुङ्गव । वरं वरय, यदीच्छसि तन्निगद्यताम् । स्वर्गं मोक्षं वा लि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org